SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ९८ शिशुपालवधम् हिमांशुं चन्द्रमाशु शीघ्र प्रसते गिलतीति यत् । ' ग्रसिते गिलितं गीर्णम्' इत्यभिधानात् । तन्म्रदिम्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' (५।१।१२२) इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीव्रेण भवितव्यम्, अन्यथा मृदुः सर्वत्र बाध्यते इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् ॥ ४ε॥ 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । प्रस्तुतप्रशंसेयं सारूप्याद्विनियन्त्रिता' ॥ इतिलक्षणात् ॥ ४६ ॥ अन्वय-स्वर्भानुः अपराधे तुझ्ये 'अपि' भानुमन्तं चिरेण हिमांशुं 'च' आशु ग्रसते (इति) यत् तत् प्रदिग्नः फलं स्फुटम् एव ॥ ४९ ॥ हिन्दी अनुवाद - समान अपराध होने पर भी राहु सूर्य को विलम्ब से तथा चन्द्रमा को जो शीघ्र प्रसता है, वह कोमलता ( शान्त रहने ) का स्पष्ट फल है, यहाँ 'अप्रस्तुतप्रशंसा' अलङ्कार है | ॥ ४९ ॥ प्रसङ्ग - प्रस्तुत श्लोक में दुर्बलता का अन्य उदाहरण प्रस्तुत किया गया है। एतदेव भङ्गयन्तरेणाह स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥ स्वयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात् -' (३२६८) इति वहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति । 'स्थादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गके' इति वचनात्प्रकृतिलिङ्गता । लघुनिष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः । बहुतृणमिति । स्पष्टोपमासाहचर्य त्किल्पब्देश्यदेशीयदेश्यादीति ( २२६० ) दण्डिना कल्पवादीनामौपम्यवाचकेष्वभिधानात् । तस्मिन्नुपेयुषि प्राप्ते सति स्वयं प्रणमते स्त्रयमेव प्रह्वीभवति । ‘कर्मवत्कर्मणा तुल्यक्रियः' ( ३|११८७ ) इति कर्मवद्भावात् 'भावकर्मणोः' (१।५।१३ ) इत्यात्मनेपदम् । न दुहस्नुनमां यक्चिणी' ( ३1१1=६ ) इति यप्रतिषेधः । दायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालङ्कारः ॥ ५० ॥ अन्वयः - असाराणां निदर्शनं बहुतृणं लघुः, (यः) नरः अल्पे अपि परवायौ उपेयुषि स्वयं प्रणमते ॥ ५० ॥ हिन्दी अनुवाद - दुर्बलों का ( सबसे बड़ा ) उदाहरण तृण के समान पौरुषहीन मनुष्य है, जो नाममात्र की भी शत्रुरूपी हवा के बहने पर शीघ्र शुक जाता है ।। ५० ।।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy