SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ २९ प्रथमः सर्गः अनन्यगुास्तव' केन केवलः पुराणमूर्तेर्महिमावगम्यते। मनुष्यजन्मापि सुरासुरान्गुणैभवान्भवोच्छेदकरः करोत्यधः ॥ ३५॥ अनन्येति ॥ न विद्यतेऽन्यो गुरुय॑स्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासात्प्राङ्ङीषि 'नवृतश्च' (२४।१५३ ) इति कप्प्रसङ्गः स्यात्, पश्चात्त्वनुपसर्जनाधिकारात् 'वोतो गुणवचनात्' (४।१।४४ ) इति न प्राप्नोति । "ङिति ह्रस्वश्च' (१।४।६) इति वा नदीसंकात्वात् 'आपनद्याः' इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सवोत्तमायास्तव पुराणमूर्तरमानुषस्वरूपस्य केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलश्वावधारणे' इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः-मनुष्याज्जन्म यस्य स मनुष्यजन्मा भवान् । 'अवयॊ हि बहुव्रीहिय॑धिकरणो जन्माद्युत्तरपदः' (२०१६) इति वामनः। भवच्छेदकरः संसारनिवर्तकर्गुणज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योंपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वतिकः' (२०४६) इति न द्वन्द्वकवद्भाव इत्याहुः। अधः करोति । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः, भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति। मानुष एव ते महिमा दुरवगाहः, अमानुषस्तु किमिति तात्पर्यार्थः। द्वितीयार्थेऽसकृव्यञ्जनावृत्त्या छेकानुप्रासः ॥३५।। __अन्वयः-अनन्यगुाः तव पुराणमूर्तेः केवलः महिमा केन अवगम्यते ? मनुष्य जन्मा अपि भवान् भवच्छेदकरैः गुणैः सुरासुरान् अधः करोति ॥ ३५॥ हिन्दी अनुवाद-सबके गुरु ( अर्थात् सर्व श्रेष्ठ) आपके सनातन रूप की सम्पूर्ण महिमा को कौन जानता है ? क्योंकि नरदेहधारी आप संसारनिवर्तक (जन्ममृत्यु के बन्धनों को नष्ट करनेवाले ) गुणों (ज्ञान आदि) से सुर तथा असुरों को नीचा करते हैं (मानव होनेपर भी आप अपने ज्ञानादि गुणों से देवों तथा असुरों को तिरस्कृत कर रहे हैं, तब सर्वश्रेष्ठ सनातनरूप की सम्पूर्ण महिमा को कौन जान सकता है ? अर्थात् आपकी महिमा दुर्जेय है।)॥३५॥ प्रसङ्ग-प्रस्तुत श्लोक में नारदमुनि श्रीकृष्ण से कहते हैं कि पृथ्वी का भार हलका करने के लिए आप अवतीर्ण हुए हैं, किन्तु आप ही उसे अधिक भारवती बना रहे हैं। मनुष्यजन्माऽपीत्युक्तम्, किमर्थमसो देवदेवो मनुष्येष्ववतीर्ण इति भङ्गया दर्शयति लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६॥ १. • गुर्वास्तव। २. भवच्छेदकरः ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy