SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधम् मुनेवंचनावकाशप्रदर्शनायाह विलोकनेनैव तवामुना मुने! कृतः कृतार्थोऽस्मि निहितांहसा। तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथ वा श्रेयसि केन तृप्यते ॥२९॥ विलोकनेनेति ॥ हे मुने ! निहितांहसाऽपहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि, तथाप्यहं गरीयसीरर्थवत्तराः । द्विवचन-' (५॥३॥५७ ) इत्यादिना ईयसुन्प्रत्ययः 'उगितश्च' इति डीप 'प्रियस्थिर-' (६।४।१५७ ) इत्यादिना गुरोगरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतद् वृषेत्याह-अथ वा, तथा हीत्यर्थः । अथ वेति पक्षान्तरप्रसिद्धयोरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिट् ॥ २६ ॥ ___ अन्वयः-मुने ! निबर्हितांहसा अमुना तव विलोकनेन एवं कृतार्थः कृतः अस्मि । तथापि अहं गरीयसीः तव गिरः शुश्रूषुः । अथवा श्रेयसि केनतृप्यते ? ॥२९॥ हिन्दी अनुवाद-हे मुने ! आपके पापविनाशक इस दर्शन से ही मैं कृतार्थ हो गया हूँ । तथापि मैं कल्याण करनेवाली आपकी वाणी सुनना चाहता हूँ। अथवा, कल्याण के विषय में कौन सन्तुष्ट होता है । ? (अर्थात् कोई नहीं)॥ २९ ।। प्रसङ्ग-श्रीकृष्ण नारद मुनि से उनके आगमन का उद्देश्य (प्रयोजन) पूछते हैं। आगमनप्रयोजनं पिपृच्छिषुराह-- गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया। तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥ ३० ॥ गतस्पृहोऽपीति ॥ गतस्पृहो विरक्तोऽपि त्वमागमनप्रयोजन वदेति वक्तु यया धृष्टतया व्यवसीयते उद्यम्यते । स्यतेर्भावे लट् । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागमः आगमनमेव नोऽस्माकं धृष्टतां तनोति विस्तारयति । तनु विस्तारे लट् । भवतो निःस्पृहत्वेऽपि प्रेक्षावत्प्रवृत्तः प्रयोजनव्याप्त्या सावकाशः प्रश्न इति भावः ॥ ३० ॥ अन्वयः--गतस्पृहः अपि आगमन प्रयोजनं वद इति वक्तुं यया व्यवसीयते, उदितात्मगौरवः गुरुः एषः तव आगमः एव नः तां पृष्टतां तनोति ॥ ३० ॥ हिन्दी अनुवाद-'आप विरक्त होते हुए भी (आप) अपने आनेका प्रयोजन बताइए।' (निःस्पृह होने के कारण आपके आगमन का कोई कारण नहीं हो १. निहितांहसा।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy