________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् |
इत्थमित्यस्याक्षेपः कर्त्तव्यः । छाया = प्रतिबिम्बं धेनोरिति शेषः । इव = यथा, अन्वगच्छत् = अनुससार ।
स०-- निषासादेति निषेदुषी तां तथोक्तम् । आसनस्य बन्ध आसानबन्धः तत्र वीरः आसनबन्धधीरः । जलमभिलषितुं शीलमस्यासौ जलाभिलाषी । आदत्त इत्याददाना तामाददानाम् । भुवः पतिर्भूपतिः ।
को० - ' छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इति । 'भूर्भूमिरचostन्ता रसा विश्वम्भरा स्थिरा' इति चामरः ।
0
ता० - नन्दिनीसे वापरायणो राजा दिलीपो धेनोश्छायासदृशस्तदीयानुसरणं कृतवान् ॥
इन्दुः- पृथ्वीपति 'राजा दिलीप' ने उस नन्दिनी की ठहरती हुई की ठहरते हुए, चलती हुई की चलते हुए, बैठती हुई की बैठते हुए, जल पीती हुई की जल पीते हुए, इस प्रकार से छाया की भाँति अनुसरण किया ॥ ६ ॥
सन्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमियां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ ७ ॥ सञ्जी०o - स इति । न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां, तथाभूतामपि, तेजोविशेषेण प्रभावातिशयेनानुमिताम्, 'सर्वथा राजैवायं भवेदि' त्यूहितां राजलक्ष्मीं दधानः स राजा, अनाविष्कृतदानराजिर्बं हिरप्रकटितमदरेखः । अन्तर्गता मदावस्था यस्य सोऽन्तर्मदाघस्थः, तथाभूतो द्विपेन्द्र इव आसीत् ।
अ० - न्यस्तचिह्नाम् अपि, तेजोविशेषानुमितां, राजलक्ष्मीं, दधानः, सः, अनाविष्कृतदानराजिः, अन्तर्मदावस्थः, इव, आसीत् ।
वा० - दधानेन तेनानाविष्कृतदानराजिनाऽन्तर्मदावस्थाने द्विपेन्द्रेणेवाभूयत । सुधा० – न्यस्तचिह्नाम् = परित्यक्तच्छत्रचामरादिलक्षणाम्, अपि = समुच्चये, तेजोविशेषानुमितां = दीप्त्यतिशयतर्कितां, राजलक्ष्मीं = नृपश्रियं दधानः = विभ्राणः, सः राजा दिलीपः । अनाविष्कृतदानराजिः = बहिर प्रकटितमदलेखः अन्तर्मंदावस्थः = अभ्यन्तरगतदानदशः, द्विपेन्द्रः = गजेन्द्रः इव = यथा, आसीत् = अभवत् ।
सo - न्यस्तानि चिह्नानि यस्याः सा न्यस्तचिह्ना तां न्यस्तचिह्नाम् । राज्ञो लक्ष्मी राजलक्ष्मीस्तां राजलक्ष्मीम् । तेजसो विशेषस्तेजो विशेषः, तेनानुमिता तेजोविशेषानुमिता तां तथोक्ताम् । न आविष्कृता अनाविष्कृता, दानस्य राजिर्दानराजिः, अनाविष्कृता दानराजिर्यस्यासावनाविष्कृतदानराजिः । मदस्यावस्था मदावस्था, अन्तरन्तर्गता मदावस्था यस्यासावन्तर्मदावस्थः । द्वाभ्यां पिबन्तीति द्विपा: स्तेष्विन्द्रो द्विपेन्द्रः।
को० - 'कलङ्काङ्कौ लान्छनं च चिह्नं लक्ष्म च लक्षणम्' इति । 'मदो दानम्'