SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [द्वितीयः गात्रस्येति शेषः । दंशनिवारणैः = वनमक्षिकाऽपसारणैः, अव्याहतैः = अप्रतिहतैः, स्वैरगतैः स्वच्छन्दगमनैः, च = समुच्चयार्थे, तस्याः नन्दिन्याः, समाराधनतत्परः = सन्तोपणासत्ता, मसूत् = बभूव।। स०-आरवादनसास्वादः, स विद्यते येषु, ते आस्वादवन्तस्तैरास्वादवद्भिः। कण्ड्यन्त इति कण्हुयनानि तेंः कण्डयनेः। दंशानां निवारणानि दंशनिवारणानि तैः देशनिवारणः। न व्याहनानीत्यव्याहतानि तैरव्याहतैः। स्वैरेण गतानि स्वैरंगतानि तैः स्वरगतः। सम्यक प्रकारेण राजतीति सम्राट । सग्यगाराधनं समाराधनं तत्र तत्परः समाराधनतत्परः । ____ को०-'वैरः स्वान्दमन्दयोः' इति । 'आराधनं साधने स्यादवाप्तौ तोषणेऽपि च' इति चामरः। ___ता०-चक्रवर्ती राजा दिलीपः स्वहस्तोपनीतानां सुस्वादुकोमलतृणानां ग्रासप्र. दानेन, गानखर्जनैवनमक्षिकाऽपवारणेन, निरर्गलस्वच्छन्दगमनेन च तस्यास्तोष. णासत्तो बभूव। इन्दुः-चक्रवर्ती वे राजा दिलीप स्वादयुक्त कोमल तृणों के ग्रासों से, शरीर के खुजलाने से, वन के मच्छड़ों के 'बैठने पर उन्हें' उढ़ाने से और विना रुकावट के स्वच्छन्द फिरने देने से उस 'नन्दिनी' को प्रसन्न करने में तत्पर हुए ॥५॥ स्थितः स्थिवामुञ्चलितः प्रयातां निषेदुषीमासनबन्धधीरः। जलाभिलागी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ।। ६॥ समी०-भूपतिस्तां गां स्थितां सती स्थितः सन् । स्थितिरूर्वावस्थानम् । प्रयातां प्रस्थितामुश्चलितः प्रस्थितः। निपेदुषी निषण्णाम् । उपविष्टामित्यर्थः । 'भाषायां सदवसश्रुषः' इति कसुप्रत्यः। 'उगितश्च' इति ङीप्। आसनवन्ध उप. वेशने धीरः। स्थित उपविष्टः सन्नित्यर्थः। जलमाददानां जलं पिवती जलाभिलाषी जलं पियनित्यर्थः । इत्थं छायेवान्वगच्छदनुसृतवान् । ___अ०-भूपतिः, ता, स्थितां (सतीम् ), स्थितः (सन् ), प्रयातां (सतीम् ), उच्चलितः (सन् ), निषेदुषी (सतीम् ), आसनबन्धधीरः (सन्), जलम् , आदंदानां (सतीम् ), जलाभिलाषी (सन् , इत्थम् ), छाया, इव, अन्वगच्छत् । वा-भूपतिना सा स्थिता सती स्थितेन सता प्रयातोचलितेन निपेदुषी आसनपन्धधीरेण जलमाददाना जलाभिलाषिणा छाययेवान्वगम्यत। ___ सुधा-भूपतिः पृथ्वीश्वरः, तां धेनुम् । स्थिताम् ऊर्ध्वमवतिष्ठमानाम् 'क्वचित् सतीमिति शेषः, सर्वत्रानेऽपि योजनीयः। स्थितः ऊर्ध्वमवतिष्ठमानः, सन्निति शेषः । सर्वत्राग्रेऽपि ज्ञेयः । प्रजाता=पुनः प्रस्थानं विदधानाम् । उच्चलिता प्रस्थानं कुर्वाणः, निषेदुषीम् = उपविधाम, आसनवन्धधीरः वीरासनविरचनस्वच्छन्दोऽर्थादुपविष्ट इति भावः । जलं सलिलम् , आददानां पिबन्तीम्, जलाभिलाषी वारि पिवन् ।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy