SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सर्गः ] सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् | समासादिः - वाक् च अर्थश्च वागर्थौ वागर्थयोः प्रतिपत्तिर्वागर्थप्रतिपत्तिस्तस्यै वागर्थप्रतिपत्तये, ईशितुं शीलमस्येतीश्वरः परमश्चासावीश्वरः परमेश्वरः । ३ को० - 'ब्राह्मी तु भरती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः । ' अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इति चामरः । 'अथो जगती लोको, विष्टपं भुवनं जगद्' इत्यमरः । ता० - पार्वतीपरमेश्वरौ प्रसन्नौ भूत्वा मह्यं काव्यनिर्माणशक्तिं प्रदत्तामतोऽहं 'कालिदासनामा' कविः स्वकाव्यविषये विशिष्टशब्दार्थयोर्ज्ञानार्थं तयोरधीश्वरौ पार्वतीपरमेश्वरौ वन्दे | इन्दुः- शब्द और अर्थ की तरह नित्य मिले हुये, संसार के माता पिता, उमा और महेश्वर को 'मैं कालिदास नामक ग्रन्थकर्ता महाकवि' शब्द और अर्थ का भली भाँति ज्ञान होने के लिये नमस्कार करता हूँ ॥ १ ॥ सम्प्रति कविः स्वाहङ्कारं परिहरति 'क्व सूर्य' - इत्यादिश्लोकद्वयेन क? सूयप्रभवो वशः क ? चाल्पविषया मतिः । तिन दुस्तरं मोहादुडुपेनास्मि सागरम् || २ || सञ्जी० – केति । प्रभवत्यस्मादिति प्रभवः कारणम् । 'ऋदोरप्' | 'अकर्तरि च करके संज्ञायाम्' इति साधुः । सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क ? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क ? हौ क्कशब्दौ महदन्तरं सूचयतः सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः । तथा हि । दुस्तरं तरितुमशक्यम् 'ईषदुः सुपु०' इत्यादिना खल्मत्ययः । सागरं मोहादज्ञानादुडुपेन प्लवेन । 'उडुपं तु प्लवः कोलः इत्यमरः । अथवा चर्मावनद्धेन यानपात्रेण । 'चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्' इति सज्जनः । तितीर्षुस्तरीतुमिच्छुरस्मि भवामि । तरतेः सन्नन्तादुप्रत्ययः । अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदं च वंशोत्कर्षकथनं स्वप्रबन्धमहत्त्वार्थमेव । तदुक्तम्'प्रतिपाद्यमहिना च प्रबन्धो हि महत्तरः ।' इति । 1 अ० ० - सूर्यप्रभवः, वंशः, कृ, अल्पविषया, 'मम' मतिश्च, क, 'अहम्' मोहाद्, उडुपेन, दुस्तरं, सागरं, तितीर्षुः अस्मि । वा० ० - सूर्यप्रभवेण वंशेन व 'भूयते' अल्पविषयया 'मम' मत्या चक्क 'भूयते' "मया' मोहादुडुपेन दुस्तरं सागरं तितीर्षुणा भूयते । सुधा० - सूर्यप्रभवः = दिवाकरोत्पन्नः, वंशः = कुलं ( सूर्यवंश इति भावः ) । छ= कुत्र, अल्पविषया = स्तोकज्ञेयार्था, (परिमित पदार्थग्रहणक्षमेति भावः ) । 'मम' मतिश्च = बुद्धिश्च, क= कुत्र, अनयोर्महदन्तरम् ( अतस्तद्वंश्य चरितानुकीर्तनमशक्यमिति भावः ) । ' अहम्' मोहाद् = अज्ञानाद्, उडुपेन=प्लवेन, चर्मावनद्धयानपात्रेण वा दुस्तरं=दुःखेनापि तरितुं शक्यं, सागरं = समुद्रं, तितीर्षुः = तरितुमिच्छुः,
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy