SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम्-- [ प्रथमःचारपरिप्राप्तत्वाद्, (आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्) इत्याशीर्वादाधन्यनमस्य प्रवन्धमुखलक्षणत्वात्, काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूल. कत्वेन विशिष्टशव्दार्थयोश्च (शब्दजातमशेपं तु धत्ते शर्वस्य वल्लभा । अर्थरूपं यदखिलं धत्ते सुग्धेन्दुशेखरः) इति वायुपुराणसंहितावचनवलेन पार्वतीपरमेश्वरायत्तदर्शनात्तत्प्रतिपित्सया तावेवाभिवादयते वागर्थाविव संपत्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दै पावनीपरमश्वरौ ॥१॥ सञ्जी०-वागिति । वागर्थाविवेत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदग्रकृतिस्वरत्वं चेति वक्तव्यम् । एवमन्यत्रापि द्रष्टव्यम् । वागर्थाविव शब्दार्थाविव सम्पृक्तौ नित्यसम्बद्धावित्यर्थः। नित्यसम्बद्धयोरुपमानत्वेनोपादानात् 'नित्यः शब्दार्थसम्बन्धः' इति मीमांसकाः। जगतः लोकस्य पितरौं । माता च पिता च पितरौ । 'पिता मात्रा' इति द्वन्द्वैकशेषः । 'मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ' इत्यमरः । एतेन शर्वशिवयोः सर्वजगजनकतया वैशिष्टयमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते । पर्वतस्यापत्यं स्त्री पार्वती 'तस्यापत्यम्' इत्यण। 'टिड्ढाणजद्वयसजनज०' इत्यादिना डीप । पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरी । परमशब्दः सर्वोत्तमत्वद्योतनार्थः । मातुरभ्यर्हितत्वादल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः । वागर्थप्रतिपत्तये. शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये अनोपमाऽलङ्कारः स्फुट एव । तथोक्तं-(स्वतः सिद्धेन भिन्नेन सम्पन्नेन च धर्मतः । साध्यमन्येन वय॑स्य वाच्यं चेदेकगोपमा ॥) इति प्रायिकश्योपमाऽलङ्कारः कालिदासोक्तकाव्यादौ । भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते । तदुक्तं 'शुभदो मो भूमिमयः' इति । वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ।। प्रेम्णा प्रेमनिधेः प्रणम्य चरणाम्भोजातयुग्मं गुरोस्तत्कारुण्यकणानवाप्य करुणापूर्णा विमूढात्मनि । कान्येऽस्मिन् रघुवंशनामनि ननु व्याख्यां सुधाख्यामिमां गुर्वज्ञानगरागंलां गुरुतरां कुर्मों यदप्यक्षमाः ॥ अ०–'अहं कालिदासः' वागविव, सम्पृक्तौ, जगतः, पितरौ, पार्वतीपरमेश्वरी, वागर्थप्रतिपत्तये, वन्दे ॥ वाच्यान्तम्-'मया' वागर्थाविव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरी वागर्थप्रतिप्रत्तये वन्ते ॥ _ सुधा-'अहमित्यस्य कर्तृपदस्य क्रिययाऽऽक्षेपः कर्तव्यः' । वागर्थाविव= शब्दाभिधेयाविव, सम्पृक्तौ =सततमनुवाद्वौ, जगतःलोकस्य, पितरौ मातापितरौ, पार्वतीपरमेश्वरौ = गिरिजामहेश्वरी, वागर्थप्रतिपत्तये = शब्दार्थोभयसम्यगज्ञानार्थ, वन्दे प्रणमामि । यथा वागर्थी नित्यसम्बद्धौ तथैव लोकस्योत्पादकौ उमामहेश्वरी, अतः शब्दार्थयोः सम्यक्तरेण ज्ञानार्थ तौ स्तुव इति भावः॥
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy