SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च । नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विधुकालकूटयोः ॥ ११३ ॥ जीवात-महीयस इति । यस्तडागः महीयसो महत्तरस्य गौरस्य च मेचकस्य च पङ्कजमण्डलस्य सितासितसरोजयोश्छलेन सलिले निलीनयोः विधुकालकूटयोः सितासितयोरिति भावः। त्विषं विमुञ्चन् विसृजन्निव नलेन भने । अत्रच्छलेन विमुञ्चन्निवेति सापह्नवोत्प्रेक्षा ॥ ११३ ॥ अन्वयः-नलेन यः महीयसः गौरस्य मेचकस्य च पङ्कजभण्डलस्य छलेन सलिले निलीनयोः विधुकालकूट योः त्विषं विमुञ्चन् मेने । हिन्दी-नल ने जिसे अत्यन्त शुभ्र और अत्यन्त नील कमलसमूह के छल से जल में छिपे चंद्र और कालकूट विष की छटा छोड़ते हुए माना। टिप्पणी-श्वेत कमल चंद्र के और नील कमल कालकूट के प्रतीक हैं । विधु से कुछ विद्वान् 'अमृत' का संकेतार्थ भी लेते हैं, क्योंकि आधार से आधेय का भान हो सकता है, चंद्र को अमृतदीधिति कहा ही जाता है । अमृत-विष का विरोधी युग्म भी है । सापह्नवा उत्प्रेक्षा अथवा इन दोनों का संकर । चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः। ध्रुवन्दधुडिवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥ ११४ ॥ जीवातु--चलीकृता इति । यत्र यस्मिन् तडागे तरङ्गरिङ्गणस्तरङ्गकम्पनाश्चलीकृता: चञ्चलीकृताः अबालानां कठोराणां शैवाललतानां परम्पराः पंक्तयः हव्यं वहतीति हव्यवाडवाग्निः 'वहश्चेति ण्विप्रत्ययः । तस्यच्छन्दोमात्रविषयत्वाद् अनादरेण भाषायां प्रयोगः। वाडवहव्यवाहो वाडवाग्नेरेव स्थित्याऽन्तरवस्थानेन प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषान्ते च धूमाश्च तेषां भावस्तत्ता तां दधुः । बहिरुत्थितघूमपटलवबभुरित्यर्थः। ध्रुवमित्युप्रेक्षायाम् ॥ ११४ ॥ अन्वया--यत्र तरङ्गिणः चलीकृता अबालशवाललतापरम्पराः वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमतां ध्र वं दधुः । जहाँ लहरों के कंपन से चंचल बड़ी-बड़ी शैवाल की बेलें वाडवाग्नि की स्थिति के कारण ऊपर उठते प्रचुर घूम की निश्चयतः धारणा बना रही थीं।
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy