________________
प्रथमः सर्गः अनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि । क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥५५॥
जीवातु-अथास्य मनोरथसिद्धयोपयिकदिव्यहंससंवादनिदानभूतं वनविहारं प्रस्तौति-अनङ्गेति। स नैषधो नलो यत्नवानप्यनङ्गचिह नं मूर्छा. प्रलापादिस्मरविकारं विना संसदि क्षणमप्यासितुं यदा नो शशाक, तदा आरामविहारकैतवादुपवन विहरणव्याजान्निर्जनं देशं निषेवितुम् इयेष देशान्तरं गन्तुमच्छदित्यर्थः । एतेन चापलाख्ये सञ्चारिणि भ्रमणलक्षणोऽनुभाव उक्तः ॥
अन्वयः-यत्नवान् अपि सः यदा अनङ्गचिह्न विना संसदि क्षणम् आसितुं नो शशाक तदा आरामविहारकैतवात् निर्जनं देशं निषेवितुम् इयेष ।
हिन्दी--प्रयत्नशील होकर भी वह (नल ) जब कामचिह्नों के विना अप्रकट रहते संसद् में क्षण भर भी बैठने में असमर्थ रहा, तव उद्यान विहार के बहाने निर्जन स्थान का सेवन करना चाहने लगा। __ टिप्पणी-संचारिमाव चपलता और भ्रम अनुभाव का वर्णन । विद्याधर के अनुसार अपह नुति अलङ्कार । शब्दालङ्कार वृत्त्यनुप्रास ॥५५॥
अथ श्रिया भत्सितमत्स्यकेतनस्समं वयस्यैस्स्वरहस्यवेदिभिः ! पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥५६॥
जीवातु--अथेति । अथानन्तरं श्रिया सौन्दर्येण भत्सितमत्स्यकेतनस्तिरस्कृतस्मरः स नल: स्वरहस्यवेदिभिः निजभमीरागमर्मर्वयसा तुल्या वयस्याः स्निग्धाः 'स्निग्धो वयस्यः सवया' इत्यमरः । तैः सह समं पुरोपकण्ठोपवनं पुरसमीपाराममीक्षिता द्रष्टा, तृन्नन्तमेवैतत् अतएव 'न लोके' त्यादिना षष्ठीप्रतिषेधः । किलेत्यलीके । निदेशकारिण आज्ञाकरान् यानाय यानमानेतुमित्यर्थः । 'क्रियार्थोपे' त्यादिना चतुर्थी । दिदेश आज्ञापयामास ॥ ५६ ॥
अन्वयः--अथ श्रिया भत्सितमत्स्यकेतनः स्वरहस्यवेदिभिः वयस्यैः समं पुरोपकंठं वनम् ईक्षिता यानाय निदेशकारिणः आदिदेश ।
हिन्दी--तदनन्तर अपनी शोमा से मीनध्वज काम को तिरस्कृत करनेवाले नल ने अपने रहस्य के वेत्ता तुल्यवयस्क मित्रों के साथ नगर के निकटवर्ती उपवन को देखने की इच्छा जताते हुए वाहन लाने के लिए आज्ञापालक सेवक को आदेश दिया।