SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३५ कथामुखे-चाण्डालकन्यकावर्णनम् श्रियमिव हस्तस्थित-कमलशोभाम्, मूर्छामिव मनोहारिणीम्, अरण्यभूमिमिव रूपसम्पन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्राहिणीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शजिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमासकुसुम-समृद्धिमिव अजातिम्, अनङ्ग-कुसुम-चापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मी थिमिति । श्रियं = लक्ष्मीम्, इव, हस्तस्थितकमलशोभा = हस्तस्थिता ( करस्थिता ) कमलेन ( पोन ) शोभा ( कान्तिः ) यस्याः सा। चाण्डालकन्यकापक्षे-हस्तस्थिता कमलस्य इव शोमा यस्याः सा । श्लेषः । म मिति । मूम् = मोहम्, इव, मनोहारिणी =चैतन्यलोपकारिणोम्, चाण्डालकन्यकापक्षे—सौन्दर्येण मनोहराम् । श्लेषाऽलङ्कारः । अरण्यभूमिमिति । अरण्यभूमि = वनभुवम्, इव, अक्षतरूपसम्पन्नाम् = अक्षताः ( अनष्टा: ) ये रूपाः (पशवः ), तैः सम्पन्नां = सहिताम् । चाण्डालकन्यकापशे-अक्षतम् ( अनुपभुक्तम् ) यत् रूपं ( सौन्दर्यम् ) तेन सम्पन्नाम् । “रूपं स्वभावे सौन्दर्य नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि" इति मेदिनी । श्लेषाऽलङ्कारः । दिव्ययोषितमिति । दिव्ययोषितं = दिव्या ( स्वर्गभवा ) योषित् (स्त्री, देवाऽङ्गनेति भावः ), ताम्, इव, अकूलीनां = को ( पृथिव्याम् ) लीना ( स्थिता), न कुलीना, तां, भूतलस्थितिरहितामिति भावः । चाण्डालकन्यकापक्षे-कुले भवा कुलोना, “कुलात्ख' इति खप्रत्ययः । तस्य "आयनेयो" त्यादिना ईनादेशः । न कुलीना, ताम् । चाण्डालत्वादप्रशस्तकुलोत्पन्नामिति भावः । “गोत्रा कुः पृथिवी पृथ्वी" त्यमरः । श्लेषः । निद्रामिति । निद्राम् = स्वापाऽवस्थाम्, इव, लोचनग्राहिणी = नेत्रग्राहिकां, नेत्रव्यापार ( दर्शन ) राहित्यकारिकामिति भावः । चाण्डालकन्यकापक्षे-लोचनग्राहिकां= नेत्राऽऽकषिणों, सौन्दर्याऽतिशयेनेति भावः । अरण्यकमलिनीमिति । अरण्यकमलिनी = विपिनपद्मिनीम्, इव, मातङ्गकुलदूषितां= मातङ्गकुलेन ( हस्तिसमूहेन ) दूषिताम् ( मर्दिताम् ), चाण्डालकन्यकापक्षे–मातङ्गकुलेन (चाण्डालवंशेन, मातङ्गकुलोत्पन्नत्वेनेति भावः ), दूषितां ( दोषयक्ताम् ) "मातङ्गः श्वपचे गजे" इति मेदिनी । भमूर्ता = मूर्ति (शरीर) रहिताम् इव, स्पर्शवजिताम् = आमर्शनरहिताम्, शरीराऽभावादिति भावः । चाण्डालकन्यकापक्षे-धर्मशास्त्रे चाण्डालस्पर्शस्य निषिद्धत्वादिति भावः । आलेल्यगतामिति । भालेख्यगतां= चित्रप्राप्ताम्, इव, दर्शनमात्रफलां = दर्शनमात्रं ( विलोकनमात्रम् ) फलं ( प्रयोजनम् ) यस्याः, ताम् । यथा चित्रस्थितायाः व्यक्तदर्शनाऽतिरिक्तं किमपि फलं न, तथा चाण्डालकन्यकाया अपि स्पर्शादिनिषेधादर्शनमात्र प्रयोजनमिति भावः । मधुमासेति । मधुमासकुसुमसमृद्धिम् = मधुमासे ( चैत्रमासे ) कुसुमसमृद्धिम् (पुष्पसंवृद्धिम् ) इव, अजाति = जातिरहिताम्, वसन्ते (चैत्रवैशाखयोः ) जातिपुष्पाभावात् । चाण्डालकन्यकापक्षे अप्रशस्तजातिमतीमिति मावः । अत्र नत्र: अप्राशस्त्याऽर्थबोधकत्वम् । “सुमना मालती जातिः" इत्यमरः । अनङ्गेति । अनङ्गकुसुमचापलेखाम् = अनङ्गस्य ( कामदेवस्य )। कुसुमचापस्य ( पुष्पधनुषः) कर्णभूषणोंसे भूषित हाथमें कमल लेनेवाली लक्ष्मीकी समान, हाथोंमें कमलको शोभासे युक्त, जैसे मूर्खा मनकी वृत्तिको हरण करती है वैसे ही सौन्दर्य से मनको हरण करनेवाली, जैसे वनभूमि रूपों ( पशुओं) से सम्पन्न होती है वैसे ही रूप ( सौन्दर्य ) से सम्पन्न, जैसे दिव्य (स्वर्गस्थित ) देवी कु (पृथिवी) में लीना ( सम्बद्धा) नहीं होती है वैसे चाण्डालकन्या होनेसे अकुलीन ( उत्तम कुलमें अनुत्पन्न ), जैसे निद्रा नेत्रवृत्तिको ग्रहण करतो है वैसी ही) नेत्रोंकी ग्राहिणी ( आकर्षण करनेवालो ), जङ्गलकी कमलिनी जैसे मातङ्ग ( हाथी) के समूहसे दूषित ( मदित होती है वैसे ही मातङ्ग कुल (चाण्डालवंश ) से दोष युक्त, अशरीरिणी ( अदेहधारिणी) की तरह स्पर्शसे वात, चित्रस्थितकी समान दर्शनमात्र फलसे युक्त, जैसे चैत्रमासमे फूलोंकी समृद्धि जाति पुष्प (चमेली) से रहित होती है
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy