SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३४ कादम्बरी मालिङ्गितदेहाम्, अनङ्ग-वारण-शिरो-नक्षत्रमालायमानेन रोमराजि-लतालवालकेन मेखलादाम्ना परिगतजघनाम्, अतिस्थूल-मुक्ताफल-घटितेन शुचिना हारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसित-पुण्डरीक-लोचनाम्, प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्रश्रवणा-भरण-भूषिताम्, मजीररत्नानां, प्रभाजालेन = कान्तिसमूहेन, रञ्जितशरीरतया = रागयुक्तदेहत्वेन, रूपे = सौन्दर्य अथवा चक्षुर्णाह्यगुणविशेषे, एव, पक्षपातिना = पक्षपातकारिणा, प्रजापति = ब्रह्माणम, अप्रमाणोकुर्वता, भगवता= ऐश्वर्यादिसम्पन्नेन, पावकेन = अग्निदेवेन, जातिसंशोधनाऽथ = जन्मपवित्रीकरणाऽथं, चाण्डालजातिशुद्धिकरणाऽर्थमिति भावः । आलिङ्गितदेहाम् = आश्लिष्टशरीराम्, अत्रोत्प्रेक्षालङ्कारः। अनङ्गेति । अनङ्गवारणशिरोनक्षत्रमालायमानेन = अनङ्गः ( कामः ) एव वारण: ( हस्ती ) तस्य शिरसि ( मस्तके ) नक्षत्रमालायमानेन = तारकापक्तिवत् आचरता, रोमराजिलताऽऽलवालकेन = रोमराजि: (लोमपक्तिः ) एव, लता ( वल्ली ), तस्या आलवालकेन ( आवापेन ), "स्यादालवालमालमावापः" इत्यमरः । तादृशेन मेखलादाम्ना = काञ्चीरज्ज्वा, परिगतजघनस्थलां - परिगतं ( समन्ततो व्याप्तम् ) जघनस्थल ( कटिपुरोभागस्थानम् ) यस्याः, ताम् । अत्र रूपकोपमयोः सङ्करः । अतिस्थूलेति । अतिस्थूलमुक्ताफलघटितेन = अतिस्थूलानि ( अधिकविपुलानि ) यानि मुक्ताफलानि ( मौक्तिकफलानि ) तैः घटितेन ( रचितेन ), शुचिना = शुक्लवर्णेन, हारेण = मुक्तामालया, कालिन्दीशङ्कया = यमुनासन्देहेन, चाण्डालकन्यकायाः श्यामत्वादिति भावः । गङ्गास्रोतसा भागीरथीप्रवाहेण, कृतकण्ठग्रहां = कृतः (विहितः ) कण्ठग्रहः (गलग्रहणम्, आलिङ्गनमिति भावः ) यस्याः, ताम् । अत्रोत्प्रेक्षाभ्रान्तिमतोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः । शरदमिति । शरदम् = घनाऽत्ययम्, इव, विकसितपूण्डरीकलोचनां = विकसितानि (प्रफूल्लानि). पुण्डरीकाणि ( श्वेतकमलानि ) एव लोचनानि ( नेत्राणि ) यस्याः सा, ताम् शरत्पक्षे रूपकालङ्कारः । चाण्डालकन्यकापक्षे—विकसिते पुण्डरीके इव लोचने यस्याः सा, ताम् । अत्रोपमाऽलङ्कारः । अत आरम्य–यक्षाऽधिपलक्ष्मीमिवाऽलकोद्भासिनीम्" एतत्पर्यन्ते पार्यन्तिक: श्लेषाऽलङ्कारः । प्रावृषमिति । प्रावृषं = वर्षाकालम्, इव, घनकेशजालां = घनाः ( मेघाः ) एव केशजालानि (शिरोरुहसमूहाः ) यस्याः, ताम्, प्रावृटपक्षे रूपकम् । चाण्डालकन्यकापक्षे-घनाः ( निबिडाः ) केशजालानि ( शिरोरुहसमूहाः ) यस्याः, ताम् । श्लेषाऽलङ्कारः । मलय मेखलामिति । मलयमेखलां= मलयस्य ( दाक्षिणात्यपर्वतविशेषस्य ) मेखलाम् ( मध्यमागम् ) इव । चन्दनपल्लवाऽवतंसां चन्दनपल्लवाः ( श्रीखण्डकिसलयानि ) एव अवतंसः ( भूषणम् ) यस्याः , ताम् । नक्षत्रमालामिति । नक्षत्रमालां = तारकापङक्तिम्, इव, चित्रश्रवणाऽभरणाभषितां =चित्रश्रवणे (चित्रश्रवणनक्षत्रे ) एव आभरणे ( भूषणे ) ताभ्यां भूषिताम् ( अलङ कृताम् )। चाण्डालकन्यकापक्षे-चित्राणि ( अनेकप्रकाराणि ) यानि श्रवणाऽऽमरणानि ( कर्णाभूषणानि कुण्डलादीनीति भावः ), तैः भूषिताम् ( अलङ्कृताम् ) । श्लेषः । पीले और ऊपर जाते हुए नूपुर के रत्नोंके कान्तिसमूहसे शरीरके रंग जानेसे मानों केवल रूपमें ही पक्षपात करनेवाले भगवान् अग्निदेवसे ब्रह्मदेवको प्रमाण न मानकर (चाण्डाल ) जातिको शुद्ध करनेके लिए आलिङ्गित शरीरवाली, कामदेवरूपी हाथोके शिरकी नक्षत्रमालाकी समान, रोमपक्तिरूप लताके लिए क्यारीकी समान मेखलाकी मालासे व्याप्त जघनवाली, अतिशय मोटे मोतियोंसे बने हुए सफेद हार ( माला )से यमुनाके सन्देहसे गङ्गाके प्रवाहसे कण्टमें लिपटी हुईको समान, विकसित श्वेतकमलों समान नेत्रोंसे शरत्का सदृश, पने केशसमूहसे घन ( मेध ) रूप केशसभूहवाला वर्षाको समान, चन्दन पल्लवरूप भूषण पहननेसे चन्दनपल्लवयुक्त मलयपर्वतके मध्यभागको सदृश, जैसे चित्रा और श्रवणरूप भूषणोंसे नक्षत्रपङ्क्ति भूपित होती है वैसे ही विचित्र
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy