SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४ कादम्बरी राजाज्ञेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी, प्रतीहारी समुपसृत्य क्षितितल - निहित - जानु - करकमला सविनयमब्रवीत् - "देव ! द्वारस्थिता सुरलोकमा रोहत स्त्रिशङ्कोरिव कुपितशतमखहुङ्कार-निपातिता राजलक्ष्मीर्दक्षिणापथादागता चण्डाल – कन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति- 'सकलभुवनतलसवंरत्नानाम् उदधिरिवैकभाजनं देवः, विहङ्गमश्चायमाश्चर्य्यभूतो निखिल -भुवनतलरत्नमिति कृत्वा देवपादमूलमेनमादायागताऽहमिच्छामि देवदर्शनसुखमनुभवितुम्' इति, एतदाकर्ण्य देवः प्रमाणमित्युक्त्वा विरराम । भाव: ) ऐरावतस्य ( इन्द्रगजस्य ) कुम्भमण्डलं ( मस्तकमांसपिण्डः ) यस्यां सा, तादृशी, मन्दाकिनी इव = आकाशगङ्गा इव, उपमालङ्कारः । चूडामणिसंक्रान्तप्रतिबिम्बच्छलेन = : चूडामणिषु ( शिरोरत्नेषु, राजशिरः स्थितेष्विति शेषः ), संक्रान्तं ( पतितम् ) यत् प्रतिबिम्बं ( प्रतिच्छाया ) तस्य छलं ( व्याजः ) तेन । राजभिः = नृपैः शिरोभिः = मस्तकैः, उह्यमाना = धार्यमाणा, मूर्तिमती = शरीरिणी, राजाऽऽज्ञा इव = नृपादेश इव, अत्र कैतवापह्नतिरुत्प्रेक्षा च अनयोरङ्गाङ्गिभावेन सङ्करः । कलहंसधवलाऽम्बरा = कलहंस: ( कादम्बै: ) धवलं ( शुभ्रम् ), अम्बरम् ( आकाशम् ) यस्यां सा, तादृशी शरत् = शरदृतुः, इव । पक्षान्तरे - कलहंस इव ( कादम्ब इव ) धवलं ( शुभ्रम् ) अम्बरं ( वस्त्रम् ) यस्मा: सा । पूर्णोपमा । जामदग्न्यपरशुधारा इव = जामदग्न्यस्य ( परशुरामस्य ) परशुः ( कुठारः ) तस्य, धारा ( अग्रभागः ) इव, वशीकृतसकल राजमण्डला = वशीकृतं ( स्वाऽधीनीकृतम् ) सकलं ( समस्तम् ) राजमण्डलं ( भूपसमूहः ) यया सा । पूर्णोपमा । विन्ध्य वनभूमिः = विन्ध्यवनस्य ( विन्ध्याऽचलकाननस्य ) भूमि: ( पृथिवी ) इव, वेत्रलतावती = वेत्रयष्टियुक्ता ( उपमालङ्कारः ) विग्रहिणी = शरीरधारिणी, राज्याऽधिदेवता = राज्यस्य ( राष्ट्रस्य ) अधिदेवता ( अधिष्ठात्री देवी ) इव, उत्प्रेक्षा । प्रतीहारी = द्वारपालिका, समुपसृत्य = समीपमागत्य, क्षितितलनिहितजानुकर कमला: क्षितितले ( भूतले ) निहितं ( स्थापितम् ) जानु - करकमलम् ( अष्ठीवद्धस्तपद्मम् ) यया सा तादृशी सती, राजानं = भूपं शूद्रकं, सविनयं नम्रतापूर्वकम्, अब्रवीत् = उक्तवती । = = बेवेति । देव = हे राजन् ! द्वारस्थिता = प्रतीहारवर्तमाना, सुरलोकं = देवभुवनं, स्वर्गम्, आरोहतः = आरोहणं कुर्वतः कुपितशतमखहुङ्कारनिपातिता = कुपित: ( क्रुद्धः ) यः शतमखः ( इन्द्र: ), तस्य हुङ्कारः ( हुङ्करणं, क्रोधव्यञ्जको ध्वनि: ), तेन निपातिता: ( अधः प्रेरिता ) राजलक्ष्मीः= भूपश्रीः इव, ( उत्प्रेक्षा ) पुरा त्रिशङ्कुर्नाम सूर्यवंशप्रसुतो राजा सशरीरं स्वर्गं जिगमिषुः सन् कुलगुरुणा वशिष्ठेन प्रतिषिद्धत्वात्तदर्थं विश्वामित्रस्याचार्यत्वे यज्ञं समारेधे तत्फलत्वेन स्वर्गमारोहन स इन्द्रेणाऽधः पातित इति रामायणकथा । दक्षिणापथात् = दक्षिणदिङ्मार्गात् आगता = आयाता, चाण्डालकन्यका = मातङ्गकुमारी, पञ्जरस्थं = पिञ्जरस्थितं, शुकं = कीरम्, आदाय = = गृहीत्वा, देवं = राजानं भवन्तं, विज्ञापयति = निवेदयति । विज्ञापनप्रकारमाह-सकलेति । सकलभुवनतलसर्वरत्नानां = सकलानि ( समस्तानि ) यानि भुवनतलानि ( लोकतलानि ) तेषु यानि सर्वरत्नानि रत्नोंमें पड़े हुए प्रतिबिम्ब के बहानेसे अन्य राजाओंके शिरसे ली गई मूर्तिमती राजाकी आज्ञाकी सदृश, हँसी से सफेद आकाशवाली शरद (ऋतु) की समान हंसके समान सफेद वस्त्र पहनी हुई, परशुराम के फर्सेकी नोकको समान सब राजसमूहको वशमें करनेवाली, जैसे विन्ध्यपर्वतकी भूमि वेत्रलता से युक्त है वैसे ही वेत्रयष्टिको लेनेवाली शरीरको धारण करनेवाली राज्यकी अधिदेवताकी सदृश द्वारपालिका निकट आकर घुटने टेककर और करकमलों को जमीनपर रखकर नम्रताके साथ बोलो - हे महाराज ! क्रुद्ध इन्द्रके हुङ्कारसे भूमिपर गिराई गई स्वर्ग में आरोहण करते हुए त्रिशङ्कु राजाकी राजलक्ष्मोकी समान दक्षिणापथसे आई हुई चाण्डालकन्यका पिंजड़े में स्थित सुग्गाको लेकर महाराजको निवेदन करती है - समस्तभूतलके सकल रत्नों के समुद्र के समान महाराज ही एकमात्र पात्र हैं, और "
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy