SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८ कादम्बरो यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु करग्रहणम्, अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिघातः, मकरध्वजे चापध्वनिरभूत् । तस्य च राज्ञः कलिकाल-भयपुञ्जीभूत-कृतयुगानुकारिणी त्रिभुवनप्रसवभूमिरिव विस्तोर्णा, मज्जन्मालवविलासिनीकुचतटास्फालन-जर्जरितोम्मिमालया जलावगाहनागतजयकुञ्जर-कुम्भ-सिन्दूर-सन्ध्यायमान-सलिलया उन्मद-कलहंस-कुल-कोलाहल-मुखरितकूलया वेत्रवत्या परिगता विदिशाभिधाना नगरी राजधान्यासीत् । यस्य चेति । यस्य = राज्ञः शूद्रकस्य, परलोकात् = लोकान्तरात्, भयं = भोतिः, न तु शत्रुजनात् । “दूराऽनात्मोत्तमाः पराः ।" इत्यमरः । अन्तःपुरिकाकुन्तलेषु = अन्तःपुरं ( शुद्धान्तः ) वासस्थानमस्ति आसां ता अन्तःपुरिकाः ( अन्तःपुरस्थाः स्त्रियः ), "अत इनिठनी" इति ठन् (इक ) प्रत्ययः । तदन्तात्स्त्रीत्वविवक्षायां टाप् । तासां कुन्तलेषु ( केशेषु ) भङ्गः= कुटिलता न तु राज्ञो भङ्गः = पराजयः । “मङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये। कौटिल्ये भयविच्छित्योः" इति हैमः । अत्र “अन्तःपुरे भवा अन्तःपुरिकाः, भवाऽर्थे ठक् प्रत्ययः' इति लिखन्तो व्याख्यातारः परास्ताः, ठकि सति "किति चे"त्यादिवृद्धः टिडढाणजि"त्यादिना डीपि, “आन्तःपुरिकी" इति रूपेण माव्यम् । नपुरेषु = पादाङ्गदेषु, मुखरता = शब्दशीलता, न तु राज्ञो वाचाटता। “पादाङ्गदं तुलाकोटिममजीरो नूपुरोऽस्त्रियाम् ।" इत्यमरः । विवाहेषु = परिणयसंस्कारेषु, करग्रहणं = पाणिग्रहणं, न तु राज्ञः शद्रकात् केषां चिद्राज्ञां करग्रहणं, तस्य राजण्डलप्रधानत्वादिति भावः । अनवरतमखाऽग्निधूमेन = अनवरतं ( निरन्तरम् ) मखाऽग्निधूमेन ( यज्ञाऽनलधूमेन )। अश्रुपातः = नयनसलिलपतनं, न तु शोकादिना । तुरङ्गेषु = अश्वेषु, कशाऽभिघातः = चर्मदण्डप्रहारः, नाऽन्यत्र । मकरध्वजे = कामदेवे, चापध्वनिः = धनुष्टङ्कारशब्दः, न तु युद्धे, शत्रुरहितस्य तस्य युद्धाऽभावात् । अत्र पूर्वोक्ते वाक्यसप्तके आर्थी परिसंख्या । ___अथ तस्य राज्ञो विदिशां नगरी वर्णयति-तस्येति । तस्य = पूर्वोक्तस्य, राज्ञः = शूद्र कस्य, कलिकालभयपुजीभूतकृतयुगाऽनुकारिणी = कलिकालात् = ( चरमयुगसमयात् ) यत् भयं ( भोतिः ), तस्मात् पुजीभूतं ( समूहीभूतम् ) यत् कृतयुगं ( सत्ययुग, प्रथमयुगम् ) तत् अनुकरोतीति तच्छीला, पुण्यमयीति भावः । त्रिभुवनप्रसवभूमिः इव = त्रयाणां भुवनानां समाहारस्त्रिभुवनं = स्वर्ग मर्त्यपाताललोकत्रितयम् ), "तद्धितार्थोत्तरपदसमाहारे च" इति समासः, "संख्यापूर्वो द्विगुः" इति तस्य द्विगुसंज्ञा, "द्विगुरेकवचनम्" इत्येकवचनत्वम्, “स नपुंसकत्वम्' इति नपुंसकत्वम् त्रिभुवनस्य प्रसवभूमिः इव = उत्पत्तिभूः इव, विस्तीर्णा = विस्तारसहिता। मज्जन्मालवविलासिनीकुचतटाऽऽस्फालनजर्जरितोमिमालया = मज्जन्त्यः (स्नान्त्यः ) या मालवविलासिन्यः (अवन्तिकामिन्यः ), तासां कुचतटानि ( पयोधरस्थलानि ), तेषाम् आस्फालनं ( ताडनम् ) तेन जर्जरिताः (क्षोणोकृताः) ऊर्मिमाला: (तरङ्गपङ्क्तयः ) यस्याः सा, तया, "वेत्रवत्या" इति पदस्थ विशेषणम् । जलाऽव जिन (शूद्रक ) राजाका परलोक (लोकान्तर ) से भय था, परलोक (शत्रुजन )से नहीं । अन्तःपुरकी त्रियोंके केशोंमें भङ्ग ( कुटिलता ) थी राजाका भङ्ग ( पराजय ) नहीं था। नूपुरोंमें मुखरता (शब्दशीलता ) थी, अन्यत्र मुखरता ( वाचालता) नहीं थी। विवाहोंमें कर (पाणि) का ग्रहण था और कोई राजा शूद्रकसे कर नहीं ले सकते थे। निरन्तर यज्ञके अग्निके धूएँसे अश्रुपात होता था, शोक आदिसे नहीं। घोड़ोंमें कशा (कोड़े )से आघात (प्रहार ) था, अन्य जनोंपर नहीं । कामदेवमें धनुष्का टङ्कार था, युद्धमें नहीं। कलिसमयके भयसे समूहरूपमें अवस्थित सत्ययुगका अनुकरण ( नकल ) करनेवाली, स्वर्ग, मर्त्य और पातालस्वरूप तीनों लोकोंकी उत्पत्तिभृमिकी समान विस्तीर्ण, स्नान करती हुई मालवमुन्दरियोंके कुचतटोंसे ताडन होनेसे बिखरी हुई तरङ्गोंकी मालावाली, जलमें स्नान करनेके लिए आये हुए जयशील हाथियोंके मस्तक पिण्डोंमें
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy