SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ४ कादम्बरी कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥ सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥ ७ ॥ दुःखेन सोढुं शक्यं दुःसहम्, "ईषदुः मुष् कृच्छ्राः कृच्छ्राऽर्थेषु खल्” इससे खलल् प्रत्यय । दुस् + सह + खल् ( उपपद० ) । अत्यन्तं दुःसहम् ( गति ० ) दुर्वचः = दुष्टं वचः ( गति० ) । सदा-सर्वस्मिन् काले, ‘“सर्व’” शब्दसे ‘“सर्वकाऽन्यकियत्तदः काले दा" इस सूत्र से दा प्रत्यय | "सर्वस्य सोऽन्यतरस्यां दि' इससे 'सर्व' के स्थान में वैकल्पिक "स" आदेश । इस पद्य में उपमा अलङ्कार है । वंशस्थ छन्द है ||५|| अन्वयः - कटु क्वणन्तो मलदायकाः खलाः कटु क्वणन्तो बन्धनशृङ्खला इव अलं तुदन्ति । सन्तस्तु मणिनूपुरा इव साधुध्वनिभिः पदे पदे मनो हरन्ति ।। ६ ।। I सम्प्रति ग्रन्थकार उपमाप्रदर्शनपूर्वकं पूर्वार्द्धन खलस्योत्तरार्द्धन सज्जनस्य वृत्तं वर्णयति— कट्टिति । कटु = तीक्ष्णं, क्वणन्तः = ब्रुवन्तः, मलदायकाः = मिथ्याकलङ्कारोपकाः, खलाः = = दुर्जनाः, कटु = तीव्रं क्वणन्तः = शब्दायमानाः, मलदायकाः = मालिन्यसंक्रामकाः, स्पर्शोत्तरमिति शेषः । बन्धनशृङ्खला इव = बन्धलोहनिगडा इव । अलम् = अत्यर्थं तुदन्ति = पीडयन्ति । सतां दुर्जनेभ्योऽन्तरं प्रदर्शयति — मनस्त्विति । सन्तस्तु = सज्जनास्तु, मणिनूपुरा इव = रत्नखचितमञ्जीरा इव । साधुध्वनिमिः = उपकारकवचनैः, मणिनूपुरपक्षे – मनोहरक्वणितैः पदे पदे = प्रतिशब्द, मणिनूपुरपक्षे - प्रतिपादन्यासं, मनः = 1 = चित्तं, हरन्ति = आकर्षन्ति ।। ६ ।। टिप्परगी - कटु = क्रि० वि० । क्वणन्तः = क्वण + लट् शतृ ० ) + जस् । मलदायकाः = मलस्य दायकाः ( ष० त० ) । खलाः = : "पिशुनो दुर्जनः खल: " इत्यमरः । बन्धनस्य शृङ्खलाः ( ष० त० ) । अलं = क्रि० वि० । तुदन्ति = "तुद व्यथने" लट् + झिः । सन्तः = अस् + लट् ( शतृ० ) + जस् । साधुध्वनिभिः = साधवश्च ते ध्वनयः तैः ( क० धा० ) । मणिनूपुरा: मणिखचिता नूपुरा:, “शाकपार्थिवादीनां सिद्धय उत्तर पदलोपस्योपसंख्यानम्" इस वार्तिकसे मध्यमपदलोपी समास । हरन्ति = "हृज् हरणे" लट् + झिः । पूर्वाद्ध और उत्तरार्द्धमें उपमाओंकी सृष्टि अलङ्कार है । वंशस्थ छन्द है ।। ६ ।। = अन्वयः - सुभाषितं हारि ( अपि ) दुर्जनस्य गलात् अर्केरियो: अमृतम् इव अधो न विशति । तत् एव सज्जनो हरिः अतिनिर्मलं महारत्नम् इव हृदयेन धत्तं ।। ७ ।। सुभाषितमिति । सुभाषितं = मनोहरवचनं, काव्यादिकमिति भावः, हारि = आकर्षकम् अपि, दुर्जनस्य : = खलस्य, गलात् = कण्ठात्, अर्केरिपोः = सूर्यशत्रोः, राहोरिति भावः अमृतम् इव = पीयूषम् इव । अधः = अधोभागे, न विशति = न प्रविशति, दुर्जनपक्षे सहृदयत्वाऽभावादर्केरिपुपक्षे उदराऽभावादिति भावः । तत् एव = सुभाषितम एव, सज्जनः = साधुजनः, गुणग्राहक इति भावः । हरिः भगवान् विष्णुः, अतिनिर्मलम् = अतिशयस्वच्छं, महारत्नम् इव = कौस्तुभमणिम् इव, हृदयेन = सज्जनपक्षे - मनसा, हरिपक्षे - वक्षःस्थलेन, धत्ते = दधाति ॥ ७ ॥ = टिप्पणी- सुभाषितं = शोभनं भाषितम् (गति ० ) । हारि = हरतीति तच्छीलं, हुन् + णिनिः + कड़वा वचन बोलते हुए, मिथ्याकलङ्कका आरोप करते हुए दुर्जन लोग । तीक्ष्ण ध्वनि करती हुई, छूनेपर जंगका मैल लगा देनेवाली बन्धनकी बेड़ीके समान अत्यन्त पीडित करते हैं। जैसे मणिखचित नूपुर, मनोहर, ध्वनियोंसे पग-पग पर चित्तको आकृष्ट करते हैं उसी तरह सज्जन लोग तो उपकारक वचनोंसे प्रत्येक शब्दमें मनको आकृष्ट कर लेते हैं ॥ ६ ॥ सुन्दर वचन ( काव्य आदि ), मनोहर होता हुआ भी दुर्जनके गलेस राहुके गलेसे अमृतके समान नीचे
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy