SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ कादम्बरी चन्द्रकला-संस्कृतहिन्दीव्यास्योपेता मङ्गलाचरणम् रजोजुषे जन्मनि, सत्त्ववृत्तये स्थितौ प्रजानां, प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥१॥ भण्डाऽसुराऽऽदिविबुधारिनिषूदनेन भक्तप्रसादनपरेण समोहितेन । याऽऽस्ते श्रुतिस्मृतिनुता हितहेतुभूता तां लोकपालनपरा ललितां नमामि ॥१॥ अथ कविकुलललामभूतो महाकविर्बाणभट्टः प्रारिप्सितग्रन्थनिर्विघ्नपरिसमाप्तिकामो नतिरूपं मङ्गलमाचरति-रजोजुष इति । अन्वयः प्रजानां जन्मनि रजोजुषे, स्थितौ सत्त्ववृत्तये, प्रलये तमःस्पृशे, ( अत एव ) सर्गास्थितिनाशहेतवे, त्रयीमयाय त्रिगुणाऽऽत्मने अजाय नम इत्यन्वयः । रजोजुष इति । प्रजानां जनानां, जन्मनि = उत्पत्ती, रजोजुषे = रजोगुणयुक्ताय । स्थितौ = मर्यादायां, सत्त्ववृत्तये = सत्त्वगुणयुक्ताय, प्रजानामितिशेषः । एवं परत्राऽपि । प्रलये =संहारे, तमःस्पृशेतमोगुणयुक्ताय, अत एव सर्गस्थितिनाशहेतवे = सृष्टिमर्यादासंहारकारणाय, त्रयीमयाय = ब्रह्मविष्णुमहेश्वररूपाय यद्वा वेदस्वरूपाय, त्रिगुणाऽऽत्मने = रजःसत्त्वतमोगुणस्वरूपाय, स्वयं तू अजाय = जन्मरहिताय, नाशरहिताय चेति ऊह्यम् । तादृशाय ईश्वराय नमः ॥ १ ॥ टिप्पणी-प्रजानां-प्रजायन्त इति प्रजाः, तासाम् प्र + जन् + डः (उपपद०)+ आम् । रजोजुषे = रजो जुषत इति रजोजुट, तस्मै, रजस् + जुष् + क्विप् (उपपद० ) + उ । सत्त्ववृत्तये = सत्त्वे वृत्तिः यस्य सः, तस्मै ( व्यधिकरण-बहु० )। तमःस्पृशे = तमः स्पृशतोति तमःस्पृक्, तस्मै, "स्पृशोऽनुदके क्विन्" इति तमस् + स्पृश् + क्विन् ( उपपद०)+ ऊँ । सर्गस्थितिनाशहेतवे = सर्गश्च स्थितिश्च नाशश्च सर्गस्थितिनाशाः ( द्वन्द्व०), तेषां हेतुः, तस्मै ( ष० त० )। त्रयीमयाय = त्रयी एव त्रयीमयं तस्मै, त्रयी+मयट् ( स्वरूप अर्थमें )। त्रिगुणाऽऽत्मने = त्रयो गुणा एव आत्मा यस्य सः, तस्मै ( बहु० )। अजाय न जायत इत्यजः, तस्मै, नञ् + जन् + ड: + ङे, “अन्येष्वपि दृश्यते' इस सूत्रसे ड प्रत्यय ( उप० ) “नमः'' इस पदके योगमें “नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' इससे चतुर्थी । वंशस्थं वृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ" ॥ १ ॥ __ प्रजाओंके सृष्टिकालमें रजोगुणवाले (ब्रह्मरूप ), स्थितिकालमें सत्त्वगुणवाले (विष्णुरूप), संहारकालमें तमोगुणवाले ( महेश्वररूप ) जन्मरहित, उत्पत्ति, स्थिति और प्रलयके कारण, ब्रह्मा, विष्णु और महेश्वर इन तीन स्वरूपोंसे युक्त अथवा वेदस्वरूप त्रिगुण (सत्त्व, रज और तम) स्वरूप अज जन्मरहित ईश्वरको नमस्कार है ॥१॥
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy