SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कथामुखे-सन्ध्यावर्णनम् यस्यामावध्यमानध्यानम्, एकदेशदुह्यमाल-होमधेनु-दुग्धधाराध्वनितधन्यतरातिमनोहरम्, अग्नि-वेदि-विकीर्यमाण-हरित्कुशम् ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाण-दिग्देवतावलि-सिक्थम् आश्रमपदमभवत् । क्वापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्त्तमाना सन्ध्या तपोधन रदृश्यत । अचिरप्रोषिते सवितरि शोकविधुरा कमल-मुकुलकमण्डलु-धारिणी हंस-सितदुकूल-परिधाना मृणाल-धवल-यज्ञोपवीतिनी मधुकर-मण्डलाक्षवलयम् उद्वहन्ती कमलिनी दिनपति-समागम-व्रतमिवाचरत् । अपर-सागपश्चिमाञ्चलम्, उपगते = प्राप्ते, अपराऽर्णवतलात् = पश्चिमसमुद्रभागात्, उल्लसन्ती = ऊवं दीप्यमाना, विद्रुमलता= प्रवालवल्ली, इव, उत्प्रेक्षा । पाटला = श्वेतरक्ता, सन्ध्या = सायंवेला, समदृश्यत = समलक्ष्यत । यस्यामिति । यस्यां = सन्ध्यायाम, आश्रमपदस्य विशेषणानि-आबध्यमानध्यानम् = आबध्यमानं ( क्रियमाणम् ) ध्यानं (चिन्तनं, परमात्मनि चित्तस्यैकतानताप्रवाह इति भावः ) यस्मिस्तत्, एकदेशेत्यादिः = एकदेशे ( एकभागे ) दुह्यमानाः ( क्रियमाणदोहना: ) या होमधेनवः (हवनार्था गावः ) तासां या दुग्धधारा ( पयः सन्ततिः ), तस्या ध्वनितेन ( शब्दितेन ) धन्यतरम् = ( अतिशयपुण्यवत् ) अतिमनोहरम् ( अतिशयचित्ताकर्षकम् ) अग्निवेदीत्यादिः० = अग्निवेदौ ( दक्षिणाग्न्यादिपरिष्कृतभूमौ ) विकीर्यमाणानि ( विक्षिप्यमाणानि ) हरित्कुशानि ( हरितवर्णा दर्भाः ) यस्मिस्तत् । ऋषिकुमारिकाभि: तपस्विकन्यकामिः, इतस्ततः= यत्र तत्र, विक्षिप्यमाणेत्यादिः = विक्षिप्यमाणानि (परिकीर्यमाणानि ) दिग्देवताभ्यः ( इन्द्रादिदेवेभ्यः ) बलिसिक्थानि (पूजान्नानि ) यस्मिस्तत् । तादृशम्, आश्रमपदं = मुनिवासस्थानम्, अभवत् = अविद्यत । क्वाऽपीत्यादि । क्वाऽपि = कुत्रचित् स्थाने, विहृत्य = पर्यटनं कृत्वा । दिवसाऽवसाने =दिनसमाप्तिसमये, सन्ध्यायामिति भावः । परिवर्तमाना=प्रत्यागच्छन्ती, लोहिततारका = लोहिते ( रक्तवर्णे ) तारके ( कनीनिके ) यस्याः सा तादृशी, कपिला = कपिलवर्णा, तपोपवनधेनुः = आश्रमस्य गौः, इव लोहिततारका = लोहित: ( रक्तवर्णाः ) तारका: ( नक्षत्राणि ) यस्यां सा, कपिला सन्ध्या = सायंवेला, तपोधनः =तपस्विभिः, अदृश्यत = अलक्ष्यत । अत्र सन्ध्याधेन्वोरुपमानोपमेयभावेनोपमाऽलङ्कारः। __ अचिरेति । सवितरि = सूर्ये, अचिरप्रोषिते = तत्कालं गते सति, शोकविधुरा = मन्युविह्वला, कमलमुकुलत्यादिः = कमलमुकुल: ( पद्मकुड्मल: ) एव कमण्डलुः ( करकः ) तद्धारिणी ( तद्धारणशीला ) हंसा: ( मराला: ) एव सितदुकूलानि ( श्वेतक्षौमाणि) परिधानम् ( अधोंऽशुकम् ) यस्याः सा । मृणालधवलयज्ञोपवीतिनी-मृणालेन (बिसेन ) धवलयज्ञोपवीतिनी (श्वेतयज्ञसूत्रसम्पन्ना)। मधुकरमण्डलाऽक्षवलयं = मधुकरमण्डलम् (भ्रमरसमूहः ) एव अक्षवलयम् (रुद्राक्षमालाम् ), उद्वहन्ती=धारयन्ती, कमलिनी- पद्मिनी, दिनपतिसमागमव्रतं = सूर्यसंगमनियमाचरणम्, आचरत् = अकरोत्, इव, उत्प्रेक्षा, रूपक, तथा च कमलिनीदिनपत्योर्नायिकानायकव्यवहारसमारोपात् समासोक्तिश्च, तथा चैतेषामलङ्काराणामेकाश्रयाऽनुप्रवेशरूपः सङ्करः । प्रवाललताके समान गुलाबी देखी गई। जिस सन्ध्यामें आश्रमस्थान, किये गये ध्यानसे युक्त, एक स्थानपर दुही जाती हुई हवनधेनुको दूधकी धाराके शब्दसे अतिशय पुण्य सम्पन्न और अत्यन्त मनोहर, अग्निवेदिमें बिछाये गये हरे कुशोंसे युक्त और ऋषिकन्याओंसे यत्र-तत्र दिशाके इन्द्र आदि देवताओंको दिये गये बलिके अन्नसे युक्त हो गया। कहींपर घूमकर सन्ध्याकालमें लौटती हुई लाल आंखोकी पुतलियों वाली कपिल वर्णवाली तपोवनकी गायके समान दिनके अवसानमें लाल ताराओंसे युक्त पीली सन्ध्याको तपस्वियोंने देखा। सूर्यके कुछ ही पहले जानेपर शोकसे विह्वल, कमलके मुकुल (कली)रूप कमण्डलुको लेनेवाली हंसरूप सफेद वस्त्रको पहननेवाली मृणालरूप
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy