SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४८ कादम्बरी भजत् । उद्यत्सप्तर्षिसार्थ-स्पर्श-परिजिहीर्षयेव संहृत-पादः पारावत-पादपाटलरोगो रविरम्बरतलादवालम्बत । आलोहितांशु-जालं जलशयनमध्यगतस्य मधु-रिपोर्विगलन्मधुधारमिव नाभिनलिनं प्रतिमागतमपरार्णवे सूर्य्यमण्डलमलक्ष्यत । विहायाऽम्बरतलम् उन्मुच्य च कमलिनीवनानि शकुनय इव दिवसावसाने तरु-शिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलग्न-लोहितातपच्छेदा मुनिभिरालम्बित-लोहितवल्कला इव-तरवः क्षणमदृश्यन्त । अस्तमुपगते च भगवति सहस्रदीधितावपरार्णवतलादुल्लसन्ती विद्रुम-लतेव पाटला सन्ध्या समदृश्यत । उद्यदिति । उद्यदित्यादिः = उद्यन् ( उदयं प्राप्नुवन् ) यः सप्तर्षिसार्थः ( मरीच्यादिसप्तर्षिसमूहः ) तस्य स्पर्शः (आमर्शनं, पादेनेति शेष: ) तस्य परिजिहीर्षया (परिहर्तुम् इच्छया), इव उत्प्रेक्षा । अत एव संहृतपादः = संहृतः (सङ्कोचितः ) पादः ( चरणो रश्मिश्च ) येन सः । सप्तर्षीणां पादेन स्पर्शनस्याऽयुक्तत्वादिति भावः । सप्त च ते = ऋषयः सप्तर्षयः, "दिक्संख्ये संज्ञायाम्" इति समासः । “सङ्घसाथौं तु जन्तुभिः" इत्यमरः । पारावतपादपाटलरागः =पारावतस्य (कपोतस्य ) पादः ( चरणः ) इव, पाटल: ( श्वेतरक्तः ) रागः ( लौहित्यम् ) यस्य सः । तादृशो रविः, अम्बरतलात् = आकाशमण्डलात्, अवालम्बत = आलम्बितवान् । “पादा रश्म्यनितुर्याशा।" इत्यमरः । अत्र रश्मिचरणयो देऽपि पादपदश्लेषेणाऽभेदाऽध्यवसायादतिशयोक्तिः, पारावतेत्यादावुपमा चेत्येतेषामङ्गाङ्गिभावेन सङ्कराऽलङ्कारः । आलोहितेति । आलोहितांऽशुजालम् = आलोहितम् ( ईषद्रक्तवर्णम् ) अंशुजालं (किरणसमूहः) यस्य तत् । विगलन्मधुधारं = विगलन्ती ( परिस्रवन्ती) मधुधारा ( पुष्परसपङ्क्तिः ) यस्मात् तत् । प्रतिमागतं = प्रतिबिम्बरूपेण पतितं, जलशयनमध्यगतस्य = सलिलशय्याऽन्तरप्राप्तस्य, मधुरिपोः = श्रीविष्णोः , नाभिनलिनम् = नाभिकमलम्, इव, अपराऽर्णवे=पश्चिमसमुद्रे, सूर्यमण्डलं = रविबिम्बम्, अलक्ष्यत = अदृश्यत । अत्र "नाभिनलिनम् इवे"त्यत्रोपमा। विहायेति । अम्बरतलम् आकाशतलं, विहाय-परित्यज्य, कमलिनीवनानि = पद्मिनीविपिनानि, उन्मुच्य = विहाय, शकुनयः = पक्षिणः, इव, उत्प्रेक्षा। दिवसाऽवसाने = वासरसमाप्तौ, सायंकाल इति भावः । तरुशिखरेषु = वृक्षाऽग्रेषु, पर्वताऽग्रेषु = शिखरेषु, च रविकिरणा: = सूर्य रश्मयः । स्थितिम् = अवस्थानम्, अकुर्वत = कृतवन्तः । आलग्नेति । आलग्नलोहिताऽऽतपच्छेदाः= आलग्नाः ( ईषत्सम्बद्धाः ) लोहिताः ( रक्तवर्णाः ) आतपच्छेदा: ( सूर्यद्योतखण्डाः ) येषु ते । तादृशाः तरवः = वृक्षाः, मुनिभिः = तापसः, आलम्बितलोहितवल्कलाः = आलम्बितानि ( कृतालम्बानि, निहितानीतिभावः ) लोहितानि ( रक्तवर्णानि ) वल्कलानि ( वल्कानि, वृक्षत्वग्वस्त्राणीति भावः ) येषु ते, तादृशा इव, उत्प्रेक्षा, क्षणं = कंचित्कालं, "कालाऽध्वनोरत्यन्तसंयोग" इति द्वितीया। "निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः।" इत्यमरः । अदृश्यन्त = अलक्ष्यन्त। अस्तमिति । भगवति = ऐश्वर्यसम्पन्ने सहस्रदीधितौ= सहस्रांशी, सूर्य इत्यर्थः । अस्तं = धूपवाले होकर क्षीणताको प्राप्त करने लगे। मानों उगते हुए सप्तर्षियों (मरीचि आदियों) पर पाद (चरण वा किरण). के स्पर्शको छोड़नेकी इच्छासे पादों-(चरणों, किरणों) को सङ्कोचित करते हुए कबूतरके पैरसे गुलाबी वर्णवाले सूर्य आकाशमण्डलसे लटक गये। कुछ लाल वर्णवाले किरण समूहसे युक्त सूर्यमण्डल, जलशय्याके बीच में प्राप्त विष्णुके पुष्परसधाराको बहाते हुए पश्चिम समुद्र में प्रतिबिम्बित नाभि कमलके समान देखा गया। सायंकालमें सूर्य की किरणोंने आकाशतलको छोड़कर और कमलिनीवनोंका परित्याग कर पक्षियोंके समान पेड़ोंके ऊपर और पर्वत की चोटियोंपर भी स्थिति कर ली। कुछ लाल धूपोंके खण्डसे युक्त वृक्ष, मुनियोंसे लटकाये गये लाल वल्कलोंसे युक्तके तुल्य कुछ समय तक दिखाई पड़े। भगवान् सूर्यके अस्ताचल जानेपर सन्ध्या पश्चिम समुद्र से उठती हुई
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy