________________
कथामुखे–शुकस्यवर्णनम्
१४३ धवलं सटाभारम् आमीलितलोचनो बहु मन्यते द्विरदकलभैराकृष्यमाणं मृगपतिः । इदमिह कपिकुलमपगत-चापलमुपनयति मुनि-कुमारकेभ्यः स्नातेभ्यः फलानि । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजल-पाननिश्चलानि मधुकरकुलानि सञ्जातदयाः कर्णताले: करिणः । किं बहुना, तापसाग्निहोत्रधूमलेखाभिरुत्सर्पन्तीभिरनिशमुपपादितकृष्णाजिनोत्तरासङ्गशोभा फलमूलभृतो वल्कलिनो निश्चेतनास्तरवोऽपि सनियमा इव लक्ष्यन्तेऽस्य भगवतः । किं पुनः सचेतनाः प्राणिनः ।
एवं चिन्तयन्तमेव मां तस्यामेदाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपत्तिनि कुशासने समुपाविशत्। आलोक्य तु मां सर्व तं, सटामारम् =केशरसमूहम्, आमोलितलोचनः= निमीलितनयनः सन्, बहु = अधिकं, मन्यतेजानीते, कोपस्थान आद्रियत इति भावः । अत्र "शशिकरधवलम्" इत्यत्रोपमा, सटामारे मृणालकलापभ्रान्त्या भ्रान्तिमानलङ्कारश्चेति द्वयोरङ्गाङ्गिभावेन सङ्करः ।
इदमिति । इह = अत्र, तपोवने, इदं = समीपवर्ति, कपिकुलं = वानरसमूहः । अपगतचापलं = निर्गतचाञ्चल्यं सत् । स्नातेभ्यः = कृतमज्जनेभ्यः, मुनिकुमारकेभ्यः = तापसवालकेभ्यः, फलानि = सस्यानि, उपनयति = समीपं प्रापयति, समर्पयतीति भावः ।
एत इति । एते = समीपतरस्थाः, करिणः = हस्तिनः, मदाऽन्धाः मदमत्ताः, अपि गण्डस्थलीमाजि-कपोलफलकश्रितानि, मदजलपाननिश्चलानिमदजलस्य (दानसलिलस्य ) पानं ( धयनम् ). तेन निश्चलानि (चाञ्चल्यरहितानि, स्थिराणोति भाव:) तादृशानि मधुकरकुलानि-भ्रमरसमूहान, संजातदया: = समुत्पन्नकरुणाः, सन्तः । कर्णताल:- श्रोत्रताडनैः न निवारयन्ति = नो दूरीकुर्वन्ति ।
कि बहुनेति । बहुना = अधिकेन, किम् । अनिशं = निरन्तम्, उत्सर्पन्तीभिः = ऊवं प्रसरन्तीभिः, तापसाऽग्निहोत्रघूमलेखाभिः = तापसानां ( तपस्विनाम् ) यानि अग्निहोत्राणि ( समन्त्राग्निहोमाः ), तेषां धूमलेखामिः (धूमरेखामिः )। उपपादितेत्यादिः० उपपादिता ( संपादिता ) कृष्णाजिनम् ( कृष्णसारमृगचर्म ) एव उत्तरासङ्गः (प्रावारः ) तस्य शोभा ( कान्ति: ) येषां ते । तथा फलमूलभृतः = सस्यकन्दधारिणः, वल्कलिनः = वल्कलयुक्ताः, निश्चेतनाः = अल्पचैतन्ययक्ताः. अत्र ज्ञानरहिता इति व्याख्याऽनुपयुक्ता, यतस्तरवोऽन्तःसंज्ञा भवन्ति । तदुक्तं भगवता मनना"तमसा बहरूपेण वेष्टिताः कर्महेतुना । अन्तः संज्ञा भवन्त्येते सुखदु:खसमञ्चिताः" ॥१-४९ । इति । तादृशाः, अस्य भगवतः= जावाले:, तरव: वृक्षाः, अपि । सनियमा: नियमसहिताः, इव, लक्ष्यन्ते = दृश्यन्ते. सचेतनाः- उत्कटतचैन्ययुक्ताः, प्राणिनः = जीवाः, मानवादय इति भावः । कि पनः =पनः किम् । अत्र "कृष्णाजिनोत्तरासङ्गशोभा" इत्यत्रोपमा, "सनियमा इवे"त्यत्रोत्प्रेक्षा चेत्यनयोरङ्गाडिमावेन सङ्करः ।
एवमिति । एवं पूर्वोक्तप्रकारेण । चिन्तयन्तं विचारयन्तम्, एव, मां, तस्यां पूर्वोक्तायाम्, एव, अशोकतरो:=बञ्जुलवृक्षस्य, अधश्छायायां निम्नवर्तिच्छायायाम्, एकदेशे एकस्मिन् प्रदेशे.
चन्द्रकिरणके समान सफेद केसरसमूहको आंखोंको मूंदता हुआ आदर कर रहा है। यहां वानरोंका झुण्ड चञ्चलताको छोड़ता हुआ स्नान किये हुए मुनिकुमारोंको फल दे रहा है। ये हाथी मदसे मत्त होते हुए भी कपोलस्थलपर बैठे हुए मदजलके पानसे निश्चल भ्रमरसमूहको दयायुक्त होकर कर्णताडनोंसे नहीं हटा रहे हैं। अधिकसे क्या? निरन्तर फैलती हुई तपस्वियोंके अग्निहोत्रकी धूमरेखाओंसे कृष्णसार मृगके चर्मरूप उत्तरीयकी शोभाको सम्पादित करते हुए फलमूल धारण करनेवाले वल्कलसे युक्त भगवान् जाबालिके अल्प चैतन्यवाले वृक्ष भी नियमयुक्तके समान देखे जा रहे हैं तो फिर चैतन्ययुक्त प्राणियों का क्या कहना ?
ऐसा विचार करते हुए ही मुझको अशोक वृक्षको उसी नो नेकी छायामें एक जगहपर रखकर हारीत पैरों. पर पड़कर पिता ( जाबालि ) को प्रणाम कर कुछ दूर रहे हुए कुशासनपर बैठे। मुझे देखकर सभी मुनियोंने