SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कादम्बरी अस्य भगवतः प्रभावादेवोपशान्तवै रमपगतमत्सरं तपोवनम् । अहो ! प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तात्मानस्तिर्य्यञ्चोऽपि तपोवन-वसति - सुखमनुभवन्ति । तथा हि एष विकचोत्पलवन -रचनानुकारिणमुत्पतच्चारुचन्द्रकशतं हरिण लोचन - द्युति-शबलमभिनव - शाद्वलमिव विशति शिखिनः कलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमजातकेसरेः केसरिशिशुभिः सहोपजातपरिचयः क्षरत्क्षीरधारं पिबति कुरङ्ग- शावकः सिंहोस्तनम् । एष मृणाल - कलापाशङ्किभिः शशिकर १४२ अस्येति । अस्य = संमुखस्थस्य, भगवतः = ऐश्वर्यं सम्पन्नस्य मुनेः प्रभावात् = अनुभावात्, एव, तपोवनम् = तापसाश्रयविपिनम् उपशान्तवैरम् = उपशान्तं ( दूरीभूतम् ) वैरं ( विरोध: ) यस्मिंस्तन् । तथा च – अपगतमत्सरम् = अपगतः ( विनष्ट: ) मत्सरः ( अन्यशुभद्वेषः ) यस्मिस्तत् । अहो इति । अहो = आश्चर्यम् । महात्मनां = महानुभावानां प्रभावः = महत्त्वम् । अत्रेति । हि = यस्मात्कारणात् । अत्र = इह, तपोवने, तिर्यवः = पशुपक्ष्यादयः, अपि, शाश्वतिकं = सदातनं, शश्वद्भवः शाश्वतिकः तम् । "कालाट्ठञ् " इति ठञ् निपातनात् “इसुसुक्तान्तात्कः" इति कादेशः, "अव्ययानां ममात्रे टिलोपः" इति न । विरोधं = विद्वेषम्, अपहाय त्यक्त्वा, उपशान्तात्मानः = उपशान्त: ( उपशान्ति गत: ) आत्मा ( स्वभाव: ) येषां ते तादृशाः सन्तः । तपोवनवस तिसुख == तपोवने ( तपश्चरणविपिने ) या वसति: ( निबास: ), तस्य सुखम् ( आनन्दम् ), अनुभवन्ति = अनुभवविषयं कुर्वन्ति । तथाहीति । एषः = समीपतरवर्ती, अहिः = सर्पः, आतपाहतः = आतपेन ( सूर्यद्योतेन, धर्मेणेति भावः ) आहत: ( ताडितः, सन्तप्त इति भावः ) सन् । विकचेत्यादिः ० = विकचानाम् ( विकसितानाम् ) उत्पलानां ( कुवलयानाम् ) यत् वनं ( विपिनम् ), तस्य या रचना ( निर्मिति : ) तदनुकारिणम् (तद्विडम्बिनम् ) । उत्पतच्चारु चन्द्रकशतम् = उत्पतत् ( उद्गच्छत् ) चारूणां ( सुन्दराणाम् ) चन्द्रकाणां ( मेचकानाम् ) शतं ( समूह: ), यस्मिस्तम् । हरिणलोचनद्युतिशबलं : हरिणस्य ( मृगस्य ) लोचने ( नेत्रे ) तयोर्द्युति: ( कान्तिः ), सा इव शबलम् ( कर्बुरम् ), अभिनव - शाद्वलम् = नवतृणयुक्तभूभागम्, इव शिखिन: ( मयूरस्य ), कलापं ( बहंम् ), निःशङ्कं = शङ्कारहितं, निर्भयं यथा तथेति भावः । विशति = प्रविशति । = = अयमिति । अजातकेसरी : = अनुत्पन्नस्कन्धवाल, केसरिशिशुभिः सिंहशावकैः सह = समम्, उपजातपरिचयः = उत्पन्न संस्तवः अयं = समीपवर्ती, कुरङ्गशावक: = मृगशिशुः, मातरं = स्वजननीम्, उत्सृत्य = विहाय, क्षरत्क्षीरधारं = क्षरन्ती ( स्रवन्ती ) क्षोरधारा ( दुग्धसन्ततिः ) यस्मात् तम् । तादृशं सिहीस्तनं = केसरिणीकुचं, पिबति = धयति । एष इति । एषः = समीपतरवर्ती, मृगपतिः = सिंहः, मृणालकलापाशङ्किभिः = मृणालानां बिसानाम् ) कलापम् ( समूहम् ) आशङ्कन्ते तच्छीलास्तः । तादृशैः द्विरदकलमैः = हस्तिशावकैः, आकृष्यमाणम् = अवकृष्यमाणं, शशिकरधवलं = शशिकर : ( चन्द्रकिरणः ) स इव धवल : ( शुभ्रः ), हैं ) । इन भगवान् ( जाबालि ) के प्रभावसे ही तपोवन विरोध और ईर्ष्यासे रहित हो गया है। अहो ! महात्माओंका प्रभाव ( कैसा है ? ) । इस (तपोवन) में तिर्यग्गण ( पशु-पक्षी आदि ) भी सनातन विरोध को छोड़कर शान्त स्वभावाले होकर तपोवन में निवासके सुखका अनुभव करते हैं। जैसे कि यह सर्प धूपसे सन्तप्त होकर विकसित कमलवनकी रचनाका अनुकरण करनेवाले उगे हुए सैकड़ों चन्द्रकों (पों) से युक्त मृगके नेत्रोंको कान्तिके सदृश चितकबरे, और नये तृणयुक्त भूभागके समान मयूरके पक्ष में निःशङ्क होकर प्रवेश कर रहा है। जिनके कन्धोंके बाल ( केसर ) उत्पन्न नहीं है ऐसे सिंहशावक के साथ परिचयवाला यह मृगका शावक दूधकी धाराओंको बहाने वाले सिद्दीके स्तनको पी रहा है। यह सिंह मृणालसमूहकी शङ्का करनेवाले हाथी के बच्चोंसे खींचे गये
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy