SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः] [१९७ विभावरी विभात्येषा, यावत् तावदमुं द्विजम् । निक्षिपामि क्षितेरन्तर्यथा जानाति कोऽपि न ॥७४०॥ इत्यसौ खण्डशोऽकार्षीत् , तूर्णं तस्य कलेवरम् ।। न्यधान्निधानवद् गर्त, खनित्वा च स्वयं रयात् ॥७४१॥ गर्तं ततस्तमापूर्य, लिप्त्वाऽसौ गोमयद्रवैः । पुष्पैर्गन्धैश्च धूपैश्च, वासयामास तां रसां ॥७४२॥ पितरौ चागतौ तस्या, गृहीत्वौद्वाहिकं विधिम् । अतीतस्तु कथाकालः, श्रीमन्नुत्सूरतोऽमुना ॥७४३॥ कथं द्रक्ष्याम्यहं तामित्युक्ते राज्ञा जगाद सा । स्वामिन्नहं सा संसारनाटिकानटने नटी ।।७४४।। कुमारि ! तदिदं सत्यं, यदत्र कथितं त्वया ? । पृष्टेति सा पुनर्वाचमुवाच नृपति प्रति ॥७४५।। याः कथास्त्वं पुराऽश्रौषीस्तथ्यास्ता भूपते ! यथा । तथेयमपि तथ्याऽस्तु , चित्रहेत्वविशेषतः ॥७४६।। एवं विप्लावितः क्षमापस्तया नागश्रिया यथा । तथा त्वमपि किं नाथ !, विप्लावयसि कल्पितैः ? ॥७४७।। ६ कल्याणसलिलाधारकम्बुना जम्बुना ततः । समगद्यत सद्यस्कहारहूरानिभं वचः ॥७४८।। सन्तु दन्तुरितानन्दाः, कथास्तन्वि ! तथाविधाः । असावस्तु विचारस्तु , प्रमाणं यस्त्वया कृतः ॥७४९॥ [ललिताङ्गाख्यानकम् ] तथाहि गाहितस्वर्गनगरीवैभवं भुवि । पुरं कन्दर्पकोशाख्यमस्ति कन्दर्पदर्पभूः ॥७५०।। धराधौरेयतां भेजे, राजा तत्र शतायुधः । पञ्चेषु तृणवन्मेने, यं विलोक्य त्रिलोक्यपि ॥७५१॥ १. “हेतुर्विशे° खंता० ॥ 15 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy