SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 सप्तमः सर्गः ॥ इत्थं परोपकारस्य, विपुलाः फलसम्पदः । धनसार्थेशदृष्टान्तात्, तवामात्य ! प्रदर्शिताः ॥१॥ यदुत्तरोत्तरश्रीणां, सञ्जज्ञे भाजनं धनः । सर्वं परोपकारस्य, तदेतन्महिमाऽद्भुतम् ॥२॥ किञ्च विश्वोपकाराय, तद् युगादिजिनेन्दुना । तीर्थेषु धुर्यतां नीतः, सोऽपि शत्रुञ्जयो गिरिः ||३॥ “मन्त्रिन्नेतस्य तीर्थस्य, प्रभावविभवोऽद्भुतः । यं वक्तुं सङ्कुचन्त्युच्चैर्वाचो वाचस्पतेरपि ॥४॥ मनोरथेऽपि सम्पन्ने, यत्र यात्रोत्सवं प्रति । सम्यक्त्वरत्नं निर्यत्नं सद्योऽप्यासाद्यते जनैः ॥५॥ दृष्टेऽपि यत्र पुण्यश्रीः, स्यादवश्यं वशंवदाः । स्पृष्टे तु साऽपि निर्वाणपदवी न दवीयसी" ॥६॥ [ कपर्दियक्षोत्पत्तिः ] §§ उपत्यकायां किञ्चास्य, पञ्चास्यध्वनितादपि । जयत्यभीरुकाभीरं, पुरं पालित्तपालितम् ||७|| तत्राभवत् कपर्दीति, नाम ग्राममहत्तरः । चौर्य-क्रौर्य-मृषा मद्य- - द्यूतस्यूतमनोरथः ||८|| पूरिताऽप्यघसङ्घातैरनघा नाम विश्रुता । उद्दण्डा चण्डतेवाऽभूद्, देहिनी तस्य गेहिनी ॥९॥ अन्येद्युर्मद्यपानेन, ताम्रास्यो मद्यभाण्डभृत् । अपश्यन्मञ्चकासीनो, मुनिद्वन्द्वमुपागतम् ॥१०॥ १. म्राक्षो मद्य' खंता० ॥
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy