SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ] अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहन्मुषिताशेषकष्टमष्टापदाचलम् ॥८८॥ कृत्वा मासोपवासक्षपणमकृपणध्यानशुद्धान्तरात्मा, शैलेशीं प्राप्य योगव्यतिकरहरणोपात्तसौस्थ्यामवस्थाम् । तत्रायं त्रातपाताकुसलसकलजगज्जन्तुजातः प्रयात:, सिद्धिं सौधर्मनाथप्रथितपृथुमहः श्लाघ्यनिर्वाणलक्ष्मीः ॥८९॥ ॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः समाप्तः ॥ एतेऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमाशक्ति-प्रातिभ-वैभवप्रभृतयः सौस्थ्येन तस्थुः कथम् ? | नाश्चर्यं यदि वा दिवानिशमसौ हृत्पङ्कजान्तस्तव, स्वैरस्मेरविरोधवारिधिमदागत्स्त्यो यदास्ते जिनः ॥ १ ॥ ॥ ग्रन्थाग्रम् ९२ ॥ उभयम् १५९०॥ १. `म् ९० । उभयं १५९० खंता० । म् ९६ । उभयं १५८९ पाता० ॥ D:\maha-k.pm 5 \ 2nd proof [ १२९ 5 10
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy