SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 पञ्चमः सर्गः ॥ इतश्च सत्त्वावष्टम्भनिस्तरङ्गीकृताकृतिः । तस्थौ बाहुबलिर्ध्यानबद्धनिश्चलनिश्चयः ॥१॥ ततः क्षमाभृतां नाथे, तत्र त्रैलोक्यजित्वरे । क्रुधा हैमनवातास्त्रं, हिमालय इवामुचत् ॥२॥ ज्वलद्ध्यानानलध्वस्तजाड्यज्वरविजृम्भिते । तस्मिने हेमन्तमाहात्म्यं, तदेतन्मोघतां गतम् ॥३॥ स्वनामधेयचौराणां, तपसां वासदायिनः । बाधामाधातुमेतस्य, माघमासः समासदत् ॥४॥ लोहं वज्रे खलः साधौ, ग्रीष्मकाल इवोदधौ । ददौ तपोनिधौ तस्मिन् शिशिरः फल्गु वल्गितम् ॥५॥ चक्रिणाऽप्यजितं बाहुबलिं जेतुमिवोत्सुकः । पुष्पमासं पुरश्चक्रे, पुष्पेषुत्रिजगज्जयी ||६|| भ्रमद्भ्रमरधूमाढ्यैः, किंशुका-ऽशोक-चम्पकैः । मधुः कुसुमबाणस्य, ज्वलनास्त्रनिभैर्बभौ ॥७॥ जितमोहमहीनाथे, तस्मिन् मथितमन्मथे । मधोः किं नाम कुर्वन्तु, सायकाः शीर्णनायकाः ? ॥८॥ अजितेऽथ स्मरेणास्मिन्, मुनौ चक्रिविजित्वरे । भीष्मो ग्रीष्मो दयाञ्चक्रे, चक्रबन्धुः पराक्रमम् ||९|| करानथ किरत्यर्के, खादिराङ्गारदारुणान् । अभूद् बाहुबलिः कामं, प्रशमामृतवारिदः ॥१०॥ १. 'लद्धनाघनध्वस्त खंता० ॥ २. चक्रवि खंता० पाता० ॥। ३. 'वारिधिः खंता० ॥
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy