SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 10 चतुर्थः सर्गः] [९३ अथ बाहुबलेराज्ञां, द्वा:स्थेनासाद्य सादरम् । प्रावेश्यत सुवेगोऽयं, सहर्षः पर्षदन्तरे ॥१९३।। स सभान्त: सभासद्भिः, क्वचिन्नीलाश्मकुट्टिमे । जलभीत्योद्धरन् वासः, सहासमवलोकितः ।।१९४।। आकाशस्फटिकस्तम्भस्खलिताङ्गतया क्वचित् । अन्यत्रापि चचारासौ, हस्तैय॑स्तैः पुरः पुरः ॥१९५।। रत्नस्तम्भसमालम्बिप्रतिबिम्बमवेक्ष्य सः ।। कृच्छ्रेण जज्ञे विज्ञोऽपि, तत्त्वतः पृथिवीपतिम् ॥१९६।। नमस्कत्य नपं पञ्जीभतहारः स भतले । विशिष्टो विष्टरे वेत्रिनिर्दिष्टे स निविष्टवान् ।।१९७।। IS मुखाब्जविलसद्वाणी, रणन्नूपुरहारिणीम् । उज्जगार गिरं कर्णसुधां स वसुधाधवः ॥१९८॥ कच्चित् कुशलमार्यस्य ?, कच्चित् कुशलिनी प्रजा ? | कुशली कच्चिदार्यस्य, सेनान्यादिपरिच्छदः ? ॥१९९।। स षट्खण्डं क्षमाखण्डमाखण्डलपराक्रमः । साधयन्न क्वचित् कच्चिदार्यः सेनान्यादिपरिच्छदः ? ॥२००॥ आवर्जिता जिताः कच्चिदार्येण जगतीभुजः । यथाऽन्वहं वहन्तस्तामाज्ञां न स्युविषादिनः ? ॥२०१।। समं जनानुरागेण, स्पर्धया वृद्धिगामिनः । आर्यस्य धर्म-कामा-ऽर्था, न बाधन्ते परस्परम् ? ॥२०२॥ इत्युक्त्वाऽवस्थिते राज्ञि, दूतः सद्भूतमब्रवीत् । कस्तस्य कुशलप्रश्न: ?, कुशलं जगतोऽपि यः ॥२०३।। कस्तस्मिन् सैन्यलेशेऽपि, देशे चाकुशलक्रम: ? । यस्मिन् सुरकृतोपास्तिः, शास्तिकृद् बान्धवस्तव ॥२०४।। तिष्ठेत पुरतः कश्चिद् , दिग्जैत्रे तत्र शात्रवः ? । अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ? ॥२०५॥ १. शे च, देशे खंता० पाता० ॥ 15 20 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy