SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः] [७७ जातेऽथ पौरुषीकाले, सकलैर्निस्तुषाक्षतैः । क्लृप्तः समङ्गलाचारं, बलि: पूर्वदिशाऽविशत् ॥३५८॥ क्षिप्तः पुरः सुरैः सोऽर्धमर्धाधु चक्रिणा पुनः । यथाविभागमन्यैश्च, जगृहे गृहमेधिभिः ॥३५९।। अथ द्वितीयपौरुष्यां, देवच्छन्दं गते प्रभौ । पुण्डरीकमुनेर्व्याख्यां, श्रुत्वा जग्मुर्जना गृहान् ॥३६०।। सदा गोमुखयक्षेण, देव्या चाऽप्रतिचक्रया । अमुक्तसन्निधिः स्वामी, सर्वातिशयभाजनम् ॥३६१।। पावनीमवनी कुर्वन् , कोटिदैवतसेवितः । नानास्थानान्यथाक्रामन् , विजहारान्यतस्ततः ॥३६२॥ युग्मम् ॥ 10 इति ज्ञानोद्योतप्रशमितसमस्तान्तरतमाः, क्रमात् क्रामन्नुर्वीतलमतुललोकम्पृणगुणः । स्फुरन्मार्गालोकं सकलमपि लोकं विरचयन् , विवस्वान् विश्वाब्जे कृतसुकृतलक्ष्मी जिनपतिः ॥३६३॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये श्रीऋषभस्वामिजन्म-व्रत-ज्ञानवर्णनो नाम तृतीयः सर्गः ॥ या श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखतामुपैति ॥ ॥ ग्रन्थाग्रम् ३६८ । उभयम् ९४५ ॥ 15 १. “प्तः पतन् सुरैः खंता० पाता० ॥ २. लतिलकलो खंता० ॥ ३. श्लोकोऽयं पाता० प्रतौ द्वितीयसर्गप्रान्ते वर्त्तते ॥ ४. ग्रन्थाग्रम् ३६५ । उभयं ९३३ ॥ इति पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy