SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४] यस्या प्रसादतो ग्रन्थान् रचयन्ति कवीश्वराः । सा(शारदा वरदा सास्तु शास्त्रसागरपारदा ॥८॥ धर्मः शर्मप्रदो लोके, धर्मो दुष्कर्मघातकः । धम्म माता पिता स्वामी, धम्र्म्मो जयति सर्वदा ॥९॥ त्रिविष्टपमयी भूमिः पुरं श्रीजैनशासनम् । विनयक्षान्तिसद्वृत्त- पवित्रजनपूरितम् ॥१०॥ ज्ञानपीठं दृढस्थानं, तद्व्याख्या वेदिका वरा । सिंहासनं विचारः स्यात्, सम्यक्त्वं छत्रमुत्तमम् ॥११॥ पट्टदेवी मनः शुद्धिः कुमारः सुकृतोदयः । विवेकश्रीर्महामात्यः, सिद्धान्तः सन्धिकारकः ॥१२॥ सङ्घः सैन्यं भवेद् यस्य, सोऽयं श्रीधर्म्मभूपतिः । संसेव्यतां प्रतिदिनं दत्ते रत्नत्रयीं यथा ॥ १३ ॥ चतुर्भिः कलापकम् ॥ अस्य श्रीधर्म्मभूपस्य, यो हि नाज्ञां विलङ्घयेत् । सोऽवाप्नोति परं सौख्यं, विषमेऽपि कलौ युगे ||१४|| [ धर्मकल्पद्रुमः यतः - निर्बीजा पृथिवी गतौषधिरसा, विप्रा विकर्म्मस्थिता, राजानोऽर्थपराः, कुधर्मनिरता नीचा महत्वं गताः । भार्या भर्तृषु वञ्चनैकहृदयाः पुत्राः पितुर्द्वेषिणः, इत्येवं समुपागते कलियुगे धन्यः स्थितिं नो त्यजेत् ॥१५॥ एवं हि विषमे काले, यो धर्म्यं नैव मुञ्चति । स संसारसमुद्रस्य, पारगामी भवत्यलम् ॥१६॥ यतः श्लोकः धर्म्माज्जन्म कुले कलङ्कविकले, जातिः सुधर्म्मात् परा, धर्मादायुरखण्डितं गुरुबलं धर्म्माच्च नीरोगता । १. यद्वा-धर्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिक्षमो, धर्मः स्निह्यति बन्धुवत्प्रतिदिनं कल्पद्रुवद्वाञ्छितम् । धर्मः सद्गुणसंक्रमे गुरुरिव स्वामीव राज्यप्रदो, धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति च ॥१॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy