SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३८ महोत्साही महासङ्घ स्तत्रस्थश्च तदा त्वभूत् । दीक्षादानादिकार्येषु, समुद्यतः सदाऽपि हि ।।४।। कर्मसङ्ग्रामवीरौ तौ, रोमहर्षसमन्वितौ । स्वयम्भूरमणस्पर्द्धि संवेगार्णवशालिनौ ॥ ५ ॥ भवनिर्विण्णताभाजौ, विरक्तौ विषयासवाद् । विधूतमोहसम्मोही, जिनशासनरागिणौ ॥६॥ प्रणिधानकृतप्रेक्षौ, विघ्नजयजयश्रीषु, प्रवृत्तिवृत्तिमालिनौ । वरौ सिद्धिसमुत्सुकौ ।।७॥ गृहनिर्गमः એ કાળે ચાણસ્માનો સંઘ દીક્ષાપ્રદાનાદિ કાર્યોમાં अत्यंत उत्साहवंत याने समुद्यत हतो. ॥४॥ भुवनभानवीयमहाकाव्ये કર્મસંગ્રામ માટે વીર.. રોમાંચિત બનેલ દેહધારીસ્વયંભૂરમણની સ્પર્ધા કરતા સંવેગસાગરથી शोलता.... ॥५॥ ભવનિર્વેદના ભાજન, વિષયાસવથી વિરક્ત, મોહ-સંમોહને ખંખેરી દેનારા, જિનશાસનના रागी.... ॥७॥ પ્રણિધાનમાં મતિ પરોવી દેનારા, પ્રવૃત્તિમાં વર્તનારા, વિઘ્નજયરૂપી જયશ્રીના પ્રિયતમ, સિદ્ધિ भाटे समुत्सुङ.... ७ न्यायविशारदम् एकेन्द्रियाद्युत्तरोत्तरगुरुतरविराधना भावविराधना चाऽप्यनेनैव पथा समुन्नेया विराधनेतरविवेकतः । दुष्प्रतिकारावपि पितरौ धर्मप्रदानत एव प्रत्युपकर्तुं शक्यौ, नाऽन्यथा । ननु श्रीवर्द्धमानकुमारज्ञाततः पित्राद्युपरोधत निष्क्रमणविलम्बो विधेयः तदुक्तमावश्यकनिर्युक्तौ - ' अह सत्तमम्मि मासे गब्भत्थो चेव अभिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीवंतेत्ति।। पृ.१७९।। ' महाजनो येन गतः स पन्था' इत्युक्तेरिति चेद् ? उक्तमपि विस्मरणशीलेन विस्मृतं भवता । प्रागेवोक्तं तथाविधपरिस्थितावित्यादि, अन्यथा तत्र मरणापायध्रौव्यात्, तथोक्तं महावीर - चरिये - 'जइ पुण जीवंतेसु वि, समणत्तमहो पवज्जिस्सं । तो मम विरहेण धुवं एए जीयं चइस्संति ।। अत एव तादृशद्रव्यादिकं विजानतो गीतार्थस्यैव दीक्षादानेऽधिकारः, अन्यथैहिकामुष्मिकापायापत्तेः । महाजन० इत्याद्युक्तावपि दुर्बलस्य चक्रिभोजनाद्युपरोधेन सङ्कोच आवश्यकः । किञ्च ऋषभस्वामिदृष्टान्तमपि कथं भवत्स्मृतिं नाऽवतरति ? एतेन गुरुशुश्रूषोक्तिर्न्याय्यत्वनिरुक्तिश्च प्रत्युक्ते । गीतार्थसम्मतायास्तथादीक्षाया विशेषविषयत्वात्, भावतः तदभावाभावाच्च । नैतत् स्वमनीषिकयोच्यते, उपनिबन्धनमप्यस्याऽऽर्षम् 'एस चाए अचाए, तत्तभावणाओ, अचाए चेव चाए, मिच्छाभावणाओ' - इत्यादि प्रकटं पञ्चसूत्रे । । ३ - ५ । । - स्वजनप्रच्छन्नप्रव्रज्यौवित्यम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy