SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भानुः गृहनिर्गमः ॥ द्वितीय लानु ॥ । द्वितीयो भानुः ॥ (अनुष्टुप्) महाविषमकालोऽभूत्, परिव्रज्याविधौ तदा । स्वजनानुमतिं कोऽपि, प्राप्नोत् प्रायो न हि क्वचित् ।।१।। દીક્ષા માટે આ ખૂબ વિષમ કાળ હતો. પ્રાયઃ કોઈને સરળતાથી સ્વજનોની અનુમતિ ન મળતી. ||१|| भ्रातरौ तावुभौ चाऽपि, બંને ભાઈ પણ તે માટે નિષ્ફળ ગયા. પરસ્પર निष्फलौ तद्विधौ मिथः । દઢ નિશ્ચય કર્યો...માતાપિતાને ભાવથી વંદના विनिश्चयं दृढं कृत्वा, ध्या .. ||२| गुरून् नत्वा च भावतः ।।२।। प्राप्तकालं ततः प्राप्य, તક મેળવી.. અને દીક્ષા માટે અત્યંત ઉત્સુક गतौ दीक्षासमुत्सुकौ । નવયુવકો શ્રીગુરુચરણથી પાવન બનેલ ચાણસ્મા चाणस्माख्यमहाग्रामे, गामे पहोंया गया. ||3|| श्रीगुरुपादपावने ।।३।। युग्मम् ।। -सङ्घहितम्१. पितरौ। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (३) प्राप्तकालमित्यादि। अथ लोकविरुद्धा ह्येषा निष्क्रान्तिः, पित्राद्यसम्मतत्वात्, इष्टतद्वत् । न च तथाऽपि धर्मार्थत्वादादेयेति वाच्यम, तस्यां धर्मस्यैव दुर्वचस्त्वात, 'परोपकारो धर्माय, पापाय परपीडन' - मिति शास्त्रसर्वस्वत्वेन श्रवणात, लोकविरुद्धधर्मयोः परस्परपरिहारेण स्थितत्वाच्च । न च षड़जीवनिकायोपकारफलत्वेन सर्वविरतेरेषाऽपि निष्क्रान्तिः परोपकारफलैवेति वाच्यम्, जिनशासने ह्येकेन्द्रियादिक्रमेणोत्तरजीवविराधनाया गुरुगुरुतरत्वात्, तत्राऽपि भावविराधनायास्त्वत्यन्तपरिहार्यत्वेनोक्तत्वात्, गृहस्थाश्रमगुरुभूतपित्रोर्दुष्प्रतिकारत्वात्, तच्छुश्रूषायाः प्रव्रज्याप्रथममङ्गत्वात्, तदुद्वेगकारिणः प्रव्रज्याया न्याय्यत्वविरहात । तदुक्तम् - 'सर्वपापनिवृत्तिर्यत, सर्वथैषा सतां मता। गुरुद्वेगकतोऽत्यन्तं नेयं न्याय्योपपद्यत - इत्यष्टकप्रकरणे। मैवम्, धर्मप्रदानस्यैव परमार्थत उपकारत्वादितरस्य धर्माभावे दु:खनिबन्धनत्वेनापकारात्मत्वात्, दृश्यते च तथानिष्क्रान्तस्याऽपि पितृभ्यो धर्मप्रदानतः परमोपकारकरणम्। न चाऽत्र संशयादपरिहारः, अर्थसंशयस्याऽपि प्रवृत्तिकारणत्वात्, सर्वत्र कृष्यादौ तथैव प्रवृत्तिदर्शनात्, अन्यथा प्रवृत्तिनिवृत्तं हतं जगत्। धर्मप्रदानाऽदर्शनेऽपि पित्रादिकृतधर्मान्तरायपरिहारेणाऽधर्मनिरोधरूपधर्मप्रदानध्रौव्याच्च सर्वविरतिधर्मान्तरायकरणस्य दुरन्तदु:खनिबन्धनत्वेन तथाविधपरिस्थितौ तदन्तराय-साफल्यकरणस्य दुष्टत्वात्, फलतः पित्रादेवुःखो-दधिपातनात्, तथैव भावतः पित्रादित्यागात्।। स्वजनप्रच्छन्नप्रव्रज्यौचित्यम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy