________________
१४६ - गुणसागरता
भुवनभानवीयमहाकाव्ये कल्लोलकृद्वरकृपा भवतो विभाति,
આપની કૃપા કલ્લોલ કરી રહી છે. આપની देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । ભીતરમાં દેદીપ્યમાન મહામૂલા રત્નો ઝગમગી રહ્યા गम्भीरताऽतिजलधे ! नयनिम्नगाधे !, છે. દરિયાને શરમાવનારી ગંભીરતાના સ્વામિ. भावाद् भजे भुवनभानुगुरो ! भवन्तम्।।१०६।। नय३पी नहीमोना समन्वयसमा सो सर !
આપને ભાવથી ભજું છું. ll૧૦ઘા
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
ऽविनेयेष्वि'-ति तत्त्वार्थसूत्रे ।।७-६ ।। तथोक्तं योगशतके - ‘सत्तेसु ताव मित्ति तहा पमोयं गुणाहिएK ति । करुणामज्झत्थत्ते किलिस्समाणाऽविणेएस'-त्ति ।।७९।।
इत्थं च पापेषु तूपेक्षेवोचिता, उक्तं च 'उपेक्षणं दुष्टधियामुपेक्षा ।।' इति शान्तसुधारसे ।।१३-३।। तथा 'उदासवृत्तिं खलु निर्गुणेष्वपी'-ति, 'उपेक्षैव माध्यस्थ्यमवार्यदोष' इति चाऽध्यात्मकल्पद्रुमे ।।१०/११।।
न च तथापि प्रशस्तत्वाददोष इति वाच्यम्, तत्त्वाभावात्, असमञ्जत्वापत्तेः, अनुचितप्रवृत्तेः, न हि मुनिष्विव द्रमकेष्वपि तादृशबहुमानपूर्वकं दानं प्रशस्तम् । तदुक्तम् – 'एसो चेवेत्थ कमो उचियपवित्तीए वण्णिओ साहू । इहराऽसमंजसत्तं तहा तहाऽठाणविणिओयात्ति योगशतके ।।८०।। इत्थं च भवताऽविचारितरमणीयस्तुत्या तत्त्व-तस्तदसमञ्जसत्वं प्रकटीकृतमिति चेत?
न, अभिप्रायाऽपरिज्ञानात्, कृपापदेन करुणाया अभिप्रेतत्वात्। तदुक्तं 'कृपानुकम्पानुक्रोशो हन्तोक्तिः करुणे' धनञ्जयनाममालायाम्, ।।११०।। ननु पुनरपि स एव दोषः, उपेक्षाया एव तत्र युक्तत्वादिति चेत् ? तदिदं शास्त्राऽकृतश्रमसुकुमारमतिवचनम्, करुणायास्तत्कुक्षिप्रविष्टत्वात् । तदुक्तम् - 'करुणाऽनुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति ।।' - इति षोडशके ।।१३-१०।। नन्वेवं कारुण्योपेक्षाव्यवस्थाऽनुपपत्तिरिति चेत् ? न, तत्त्वेऽपि भेदात, 'प्रथमकरुणाया मोहानुविद्धत्वेऽपि दानांशप्राधान्यात् करुणात्वम, अत्र तूपेक्षाप्राधान्यादुपेक्षायामवतारः, उपधेयसाकर्येऽप्यु-पाध्योरसाकर्या'दिति कल्याणकन्दलीवचनात् ।
ननु भक्तेषु त्वनुकम्पा सुलभा, पापेषु तु दुर्घटेति चेत् ? न, तेषां तु सुतरां तदास्पदत्वात्, नरकहुतवहहुतरूपत्वात्, उक्तं च- 'आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धन'- मिति । ननु तेष्वपि भवत्वनुकम्पा, किन्तु स्वापकारिणि तदसम्भवात् भागासिद्धिः, तस्य कोपविषयत्वेनानुकम्पाया दूरोत्सारितत्वादिति चेत् ? न, सत्यासत्यविभावनादिमतां महात्मनां तत्राऽपि कोपाभावात्, उक्तं च - 'आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । यदि सत्यं क: कोपः ? स्यादनृतं किं न कोपेने'-ति । कर्मविपाकचिन्तनेनाऽपि तत्सम्भवः, यथोक्तं जीवानुशास्तिकलके'रे जीव ! चिंतसि तुमं निमित्तमित्तं परो हवइ तुज्झ । असुहपरिणामजणियं फलमेयं पुव्वकम्माणं ।।' इति ।।२।।
वस्तुतस्तु यद्यपकारिणि कोपः कर्तव्यस्तर्हि कोप एव कुपितव्यम्, तत्त्वतस्तस्यैव तत्त्वात्, धर्मादिपरिपन्थित्वात्, तदुक्तम्- 'अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनी'-ति । इत्यादि जिनवचनभावितानां सतां तत्रापि तत्सम्भवः, औदासीन्यप्रकर्षतस्त-त्सिद्धेः, अत एव मुनीनां सुखमपि सङ्गतिमङ्गति, उक्तं च - 'उदासवृत्तिस्थितचित्तवृत्तयः सुखं श्रयन्ते यतयः क्षतालय' इत्यध्यात्मकल्पद्रुमे ।।१-७।।
एतेन, 'उपेक्षा त्वौदासीन्यमानं, न तस्य बलं किञ्चिदस्ति संयमाऽभावा'-दिति मणिप्रभायोगसुधाकरयोगप्रदीपिकावचनानि परास्तानि । तत्राऽपि धारणादिसम्भवाच्चेति दिक् ।
इत्थं च श्रीगरूणां पापेष्वपि कृपासूधादृष्टिरुचितैवेति स्थितम । १. न च वृत्तावन्यार्थतयाऽसम्बद्धता, तदर्थाविवक्षणात्। २. पातञ्जलयोगसूत्रव्याख्यात्रयम् ।
कृपा कृतापकारेऽपि