SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३५ अङ्गाः विषयाः २० संस्थानविशेषरूपेण स्वीकृते घटे पृथुबुध्नोदरादिसंस्थानं निजं रूपं मध्यावस्थितं तेन रूपेण घटः, पूर्वोत्तरावस्थितकुशूलकपालादिलक्षणार्थान्तररूपेणाघटः, युगपत्प्रधानतया विवक्षिताभ्यामवाच्य इति तुरीयः प्रकारः । २१ मध्यावस्थारूपे घटे वर्त्तमानक्षणरूप निजरूपेण घटः सन्निति, अवर्तमानक्षणस्वरूपार्थान्तरेणाऽसन्निति प्रथमद्वितीयभङ्गा, ताभ्यां युगपत्प्रधानतया विवक्षि ताभ्यामवाच्य इति पञ्चमः प्रकारः । १५५ २२ क्षणपरिणतिरूपघटस्य चाक्षुषप्रत्यक्षविषयत्वं निजं रूपं तेन सच्चम्, अन्येन्द्रियजप्रत्यक्षविषयत्वेनार्थान्तरेणासत्त्वं ताभ्यां प्रथमद्वितीयौ युगपत्प्रधानतया विवक्षिताभ्यामवाच्यत्वमिति षष्ठः प्रकारः । १५४-२४ पृ० २३ चाक्षुषप्रत्यक्षविषये घटे निजेन घटशब्दवाच्यतारूपेण सत्वात्प्रथमः, अर्थान्तरेण कुटादिशब्दवाच्यत्वेनासत्त्वाद् द्वितीयः, ताभ्यां युगपत्प्रधानतया विवक्षिताभ्यामवाच्यत्वात् तृतीय इति सप्तमः प्रकारः । २४ घटशब्दाभिधेयस्य घटस्य निजेनोपादेयान्तरङ्गेोपयोगरूपेण सत्वात्प्रथमः, अर्थान्तरेण हे बहिरङ्गानुपयोगरूपेणासत्त्वाद्वितीयः, ताभ्यां युगपत्प्रधानतया विवक्षिताभ्यामवाच्यत्वा तृतीय इत्यष्टमः प्रकारः । १५५-१३ १५५-२४ १५६-९ २५ उपयोगस्वरूपघटे अभिमतार्थावबोधकत्वेन निजरूपेण सत्त्वात्प्रथमो भङ्गः, अनभिमतार्थावबोधकत्वलक्षणार्थान्तररूपेणासत्वाद् द्वितीयो भङ्गः, युगपत्प्रधानतया विवक्षिताभ्यां ताभ्यामवाच्यत्वात्तृतीयो भङ्ग इति नवमप्रकारः । "Aho Shrutgyanam" १५६-१८ २६ असाधारणेन निजरूपघटत्वेन घटस्य सच्चात्प्रथमः साधारणेनार्थान्तरसत्वेन घटस्यासत्वाद् द्वितीयः, युगपत्प्रधानतया विवक्षिताभ्यां ताभ्यामवाच्यत्वा तृतीय इति दशमः प्रकारः । १५६-३० २७ प्रतिक्षणमन्यान्यपरिणतिलक्षणार्थपर्यायेण निजेन घटस्य सत्त्वात्प्रथमः, घटशब्दप्रवृत्तिनिमित्तघटत्वात्मकव्यञ्जनपर्यायेणार्थान्तरेणासवाद् द्वितीयः, अभेदेन ताभ्यां निर्देशेऽवाच्यत्वा तृतीय इति एकादशप्रकारः ! २८ समर्थान्तरभूतं विशेषवदेकत्वेनानन्वयित्वान्न शब्दवाच्यमिति घटोऽपि तेनावाच्यः, अन्त्यविशेषो निजं रूपमनन्वयित्वादवाच्य इति प्रथमद्वितीयौ, ताभ्यां युगपत्प्रधानतया विवक्षिताभ्यामवाच्याभ्यां घटोऽप्यवाच्य इति तृतीय इति द्वादशप्रकारः । १५७-१७ १५७-२७
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy