SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २० अङ्काः विषयाः ४४ ब्रह्मवाद निरसनं, तत्र प्रसङ्गात् "अयं जीवो न कूटस्थम्" इत्यादि पञ्चदशीपद्य त्रयमुवृङ्कितम् । २८ - १ “णिययवयणिजसच्चा" इत्यष्टाविंशतितमगाथावतरणम्; तत्र वस्तु नैकात्मकं किन्त्वनुभूयमानत्वेनानेकान्तात्मकं प्राचीननैयायिक मतेऽवच्छेदकभेदेनैकत्र वृक्षे कपिसंयोगतदभावयोखि, नव्यनैयायिकमते कपिसंयोगितद्भेदयोरिथ, बौद्धमते चित्रज्ञाने नीलाकारत्वपीताकारत्वयोखि, स्वद्रव्यादिपरद्रव्यादितत्तनिमित्तापेक्षया सत्त्वासत्वयोरविरुद्धत्वम् । २ अविरोधावगतये स्यात्पदघटितस्य वाक्यस्य प्रयोगः । ३ यत्र न स्यात्पदप्रयोगस्तत्रापि "अप्रयुक्तोऽपि सर्वत्र " इति वचनेनैकान्तव्यवच्छेदाय स्यात्पदं ज्ञेयम्, एवकारवदित्युपपादनम् । ४ विरुद्धधर्मस्य तत्तनिमित्तापेक्षयाऽविरोधानभ्युपगमे न्यायादिमते भ्रान्तज्ञाने धशे प्रामाण्यं प्रकारांशे चाप्रामाण्यं, सांख्यमते एकस्या एव प्रकृतेः त्रिगुणात्मकत्वं, बौद्धमते एकस्य चित्रज्ञानस्य नीलपीताद्यनेकाकारत्वम्, रूपस्य रूपम्प्रत्युपादानत्वं सम्प्रति निमित्तत्वमित्यादि न स्यात्, उक्तार्थे “साङ्ख्यः प्रधानमुपयन्निति” उपाध्यायवचनं "चित्रमेकमनेकं च" इति हेमसूरिवचनश्च संवादकम् । ५ अनेकान्तात्मकवस्त्वेकदेशविषयास्सर्वेऽपि सङ्ग्रहादयो नयाः परनयविषये गजनिमीलिका मवलम्बमानास्सम्यग्ज्ञानरूपा स्वविषये वर्तमाना मिथ्यात्वं प्रतिपद्यन्त इति । अपीतरनयविषयव्यवच्छेदेन ६ णिययत्रयणिजसच्चा इति गाथार्थः । ७ भावार्थ:, तत्र स्याद्वादतत्त्वज्ञो नयमामाण्याप्रामाण्ययोर्नैकान्तमवधारयति किन्तु इतरांशसापेक्षस्व निमित्तापेक्षांशग्राहकत्वे नयानां प्रामाण्यमन्यथात्वऽप्रामाण्यमित्यनेकान्तं निश्चिनोतीति । ८ इयं गाथा गुरुतत्त्वविनिश्चये किश्चिद्भागेऽन्यथा पढिता तत्वाठमुल्लिख्य तदुपदर्शितश्चार्थ उल्लिखितः । १३२--१ "Aho Shrutgyanam" पृ० पं १३२–२९ १३३-७ १३३-८ १३३–१२ २९- १ नयप्रमाणात्मकैकरूपताव्यवस्थितमात्मरूपमनुगतव्यावृत्तात्मकमुत्सर्गापवादरूपग्राह्यग्राहकात्मकत्वाद्व्यवतिष्ठते इत्यर्थोपदर्शनपरतया " दव्वट्ठियवत्तन्वं" इत्येकोनत्रिंशमगाथाऽवतारिता । १३३-२७ १३४–५ १३४-२१ १३४-२५ १३५–४
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy