SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ प्रम्नति• काण्ड ३, गा० ५२ GK तस्य प्रकारतया भानाभ्युपगमे भवनिष्ठ कार्यतानिरूपित कारणताऽऽश्रयी भूतकर्माऽत्यत्रोच्छेदमित्यर्थः । संसर्गतया भानस्वीकारे तु स्वनिष्ठ कार्यतानिरूपितकारणतासम्बन्धेन विशिष्टं यत् कर्म तस्याऽत्यन्तोच्छेदमित्यर्थः । ' दो वि न पुरेंति पाडिक्कं ' द्वावपि प्रत्येकं न पूरयतः, तौ द्वावपि द्रव्यार्थिकपर्यायार्थिकनया वेकैको परस्पर निरपेक्षौ न विवत्तः, मिथ्याज्ञानरूपत्वाद्, यच्च मिथ्याज्ञानात्मकं तन्न दुःखविमोक्षं विश्वत्ते, यथा मरुः मरीचिकादौ जलभ्रान्तिः मिथ्याज्ञानरूपौ च तौ नयाविति तावपि सम्यक्क्रियाऽनङ्गतया भवदुःखविमोक्षं न विधत्तः, तयोर्नययोर्मिथ्यात्वे च कारणात्कार्यमभिन्नमत एव सत्कार्य - मित्येवमेकान्तद्रव्यार्थिकनय प्रतिपादितमेवं पूर्ववर्त्तिनः कारणात् पश्चाद्भावि कार्य भिन्नमेव, अत एवासत्कार्यम् असतः सत्तालामलक्षणत्वात्कार्य स्वस्येत्येव मे कान्तपर्यायार्थिकनयप्रतिपादितश्चासत्यमेव, नन्वेवं तर्हि किमत्र तत्त्वं सत्यमिति चेत्, उच्यते - कारणात् कार्यं कथञ्चिद्भिन्नमभिन्नश्च अत एव कथञ्चित्सच्चाऽसचेत्युभयरूपमिति जानीहि ॥ ५१ ॥ अनुमेवार्थमुपसंहरति--- नत्थ पुढवविसि घडोत्ति जं तेण जुजइ अणण्णो । जं पुण घडोत्ति पुष्यं ण आसि पुढवी तओ अण्णो ॥ ५२ ॥ "नत्थि पुढवीविसिडो घडो त्ति जं " यद् यस्मात् पृथ्वीविशिष्टः पृथिव्या मृत्तिकायाः कारणीभूताया विशिष्ट विश्लिष्टो वा व्यतिरिक्तो भिन्नः कार्यभूतो घटो नास्ति मृत्तिका - व्यतिरिक्तस्वभावतया न दृश्यते ' तेण जुजइ अणन्नो ' तेन तस्माद्धेतोर्युज्यते अनन्यः, मृतिकातोऽभिन्नः, यत्कार्यं यत्कारणात्मकं तत्तदभिन्नं यथा जलबुबुदो जलस्वरूपकारणात्मक इति स तदभिन्नः, मृत्तिकास्वरूपकारणात्मकच घट इति सोऽपि तदभिन्नः, यद्वा यत्कार्य यद्विकारात्मकं तत्तदभिन्नं यथा जलबुद्बुदो जलविकारात्मक इति तदभिन्नः, यथा वा वेदान्तमते मायाविकारात्मकं घटपटादिजगत् इति तदभिनं, पृथिवीविकारात्मकथ घट इति सोऽपि तदभिन्नः, नन्वेवं सति कार्यकारणयोर्दृश्यमाना भेदप्रतीतिरेव लुप्ता स्यात् । किश्च तयोरभेदे कार्यकारणभाव एव न स्यात्, भेद एव तद्भावादित्याशङ्कानिवृत्त्यर्थमुत्तरार्द्धमाह - ' जं पुण' यत्पुनः ' घडोत्ति' घट इति, पृथुबुध्नोदराद्याकारतालक्षणव्यक्तस्त्ररूपेण 'पुवं न आसि ' पूर्वं घटोत्पत्तेः प्राक् स नासीत्, नाभूत्, किन्तु ' पुढवी ' पृथ्वी मृत्तिकै वासीत्, अथम्मान:- कार्यकारणयोस्सर्वथैक्ये स्त्रकाल इव मृत्तिकात्मक पृथ्वीका लेsपि घटः पृथुबुनोदराद्याकारेणोपलभ्येत, न चोपलभ्यते ' तओ अण्णो ' ततः तस्मात्कारणात् ज्ञायते कारणीभूतमृदात्मक पृथ्वीतोऽन्यो घट इति । दशवैकालिकप्रथमाध्ययनबृहट्टीकायां साक्षिभूतगाथोत्तरार्द्धपाठस्त्वेवम् - " जं पुण घडत्ति पुढं नासी पुढवीह तो अन्नो " इति । यत्पुनर्घट इति पूर्व नासीत् ततः तस्मात्कारणात् पृथिव्या अन्य इत्यर्थः । अयम्भावः- यो घटस्सोऽपि 4 "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy