SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) अथ स्पर्शने पृच्छाज्ञानाय न्यासमाह तलं सिंहासनं साक्षातत्रस्थरित्रजद्गुरुः । आदिदेवोङ्गुलः सेव्यो जयादि देवताजनैः ॥ ९॥ तलमिति । एवं घ्यात्वा ॐ जये स्वाहा । ॐ विजये स्वाहा । ॐ जयन्ते स्वाहा । ॐ अपराजिते स्वाहा । ॐ आदीश्वराय नमः । इत्ययं तारादिर्न्यासः ततः एवं योगेऽङ्गुष्ठस्य प्रदक्षिणादानं, आदिदेवत्वात् विद्यासाघनकार्येच्छा समये न्यासः कार्यो. वर्षज्ञानादाराभ्य चूडामणिशास्त्रानुसारण पृच्छा फलं यावत् ॥ ९ ॥ ॐ जये विजये स्वाहा जयन्तेऽथापराजिते । ॐ आदिदेवाय नम एवं न्यासो विचिन्त्यते ॥ १० ॥ ॐ जयइति गदितार्थम् ॥ १० ॥ अथाङ्गुलीषु भागत्रये गोलधनायु रूपरेखात्रये शिरः प्रभृतिषु अवयवत्रयेषु त्रिसंख्या नयमनहेतुज्ञानाय ध्यानमाह - अं इत्यर्हन् देवदेवो विश्वम्भरः परापरः गुरुर्गुशब्देनाख्यातस्तयोर्धर्भस्तदीरितः ॥ ११ ॥ अमिति | अं-प्रतिसानुस्वारत्वं शिवबीजात् सिद्धरूपेणार्हद्ध्यानार्थं ॥ अक्षरार्थं चिन्तनया ध्यानारम्भः ॥ ११ ॥ त्रिकालं सामुद्रिकशास्त्रबोधकेन स्वं हस्तं वीक्ष्य किं कर्तव्य इत्याहभक्त्यादेवे गुरौ ध्यायेत्तस्मात्तत्वे त्रयं करे | लीतिलक्ष्मी चतुर्धापि स्यादस्याराधकाङ्क्षिणः ॥ १२ ॥ भक्त्येति ॥ १२ ॥ अथ जन्मपत्रभाव कुण्डलिकादौ ग्रहभावनार्थं तन्मूलध्यानमाह. प्रागऽभ्युदयते रविः यथोदय गिरेः तथाङ्गुष्ठे ग्रहाज्ञेया नखाश्चन्द्रमुखाः परे ॥ १३ ॥ यथोदयेति । प्रातः पाणिदर्शने अङ्गुष्ठस्य रविस्वरूपेणध्यानं मैमित्तिकस्याऽभ्युदयाय, यद्यपि अङ्गुष्टस्य मध्यत्र्यंशे सूर्यस्थानं तथापि ध्यानसमये "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy