SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (२०) संग्रह इत्यामृश्य साम्प्रतं वर्तमानार्हतः श्रीसीमन्धर नाम्नो जिनाद्यस्य स्मृत्यर्थ तच्छासनीधिष्टायिकायाः पञ्चाङ्गेल्या देव्याहस्ते सन्निधानकथनेन हस्तस्योत्कर्षमाह पञ्चाङ्गुलिमहादेवी श्रीसीमन्धरशासने अधिष्टात्रीकरस्यासौ शक्तिः श्रीत्रिदशेशितुः ॥ १२॥ पञ्चागुलिरिति । पञ्चाङ्गुलिर्देवी प्रत्यङ्गिरा १ ऐन्द्रीशक्ति २ रित्यपरपाया श्रीसीमन्धरभगवतः शासनेतीर्थे महादेवीशासनदेवता साकरस्य अधिष्टायिका श्रीइन्द्रस्य शक्तिः अष्टादश:-मुजान्विता । तेन पञ्चाङ्गु लिरिति हस्तस्याभधानं, लौकिक, शासने वज्रशृङ्खलावज्रांकुशीतिनामभिः सैवप्रस्तूयते । वैरिदलनेऽस्याधिकारात् तिस्रोदशाब्रह्मविष्णुरुद्ररूपा अवस्थायेषां ते त्रिदशा देवास्तेषामीशः स्वामीतेषु समर्थः शक्रस्तस्य हस्ते वज्रधरणात् तच्छक्तिरूपासौ महाबलावज्रस्य शैलादिभेदसामर्थ्यात्नास्थाः परा काचिद्वीयेवात्कृष्ठा शक्तिरतए वास्याध्यानं विद्युत्स्वरूपं ब्रह्मविष्णुरुद्ररूपास्त्रयोमन्त्रास्तत्रापि ॐनमो पञ्चाङ्गुलि पञ्चाङ्गुलीइत्यादिमन्त्रे वज्रनिर्घातपतनोक्तिः वामहस्ते विपक्ष विध्वंस प्राधान्यादेतध्दधानं दक्षिणेतु तिस्रो दशाबालतरुणवृद्धरूपा यस्यस त्रिदशः सचासौ ईशिता इन्द्रः आत्मा इन्द्रियप्रयोजयिता तस्य शक्तिब्रह्ममयी करस्य अधिष्टात्री श्रीसीमंधर शासने महादेवी दिव्यरूपा पञ्चाङ्गुलिरिति ध्यानमेतद्व्याख्या लभ्यं महाब्रह्मेति कराभिधानात् शान्तिककार्ये मङ्गलकार्ये कौङ्कुमहस्तकादिन्यासेन महोपयोगाच्च ॥ ११ ॥ एतदेव विवृणोति-- हस्तेन पाणिग्रहणं पूजाभोजनशान्तयः । साध्याविपक्षविध्वंस प्रमुखाः सकलाः क्रियाः ॥१३॥ हस्तेनेति । पाणिग्रहणं परमोत्सव ऐहिकसुखहेतुः पूजा स्वेष्टदेवस्य सर्वकार्यसिद्धिकरी । श्रीभगवतः पूजामोक्षनिमित्तं भोजनं शरीरेन्द्रियतृप्तिकरं जिनकल्पिकमुनेरशनंवा शान्तिदुरितोपशमनाय तत् तत्सूत्रपाठादिकर्महस्तेन दक्षिणहस्तेन साध्याः विपक्षविध्वंसादयो वामहस्तेनेति द्वयोरपि अर्थक्रिया "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy