SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ( २३२ ) स्त्रीणामुदग्दिशिमणिदक्षिणाङ्गलिस्थिता । सौभाग्यं मध्यमाङ्गुल्या निर्णेयं वर्षपर्वणोः ॥ २४ ॥ स्त्रीणामिति । स्त्रीणां वामहस्ते मणिबन्धः उत्तरस्यां दिशि दक्षिणा आशादिक् अङ्गुठिषु व्यवस्थिता, सौभाग्यं लोकवल्लभता मध्यमाङ्गुल्या नखरूपात् पर्वणस्त्र्यंशस्य स्वरूपाश्च निर्णेयं सौभाग्यवतीति । मध्याभिधानात् ॥ २४ ॥ सपत्नी योगमाह- पतिरेखा पल्लवैर्वा ताराघो रेखया स्त्रियः । सपत्नी सम्भवो ज्ञेयः पतिभाग्यन्तु दक्षिण ।। २५ ।। पतिरेखति । दक्षिणायुर्लेखायां मूलतोयावन्तः पल्लवा, अङ्गुलि सम्मुखास्युस्तैः सपत्नायोगः, यद्वा दक्षिणहस्त कनिष्ठाधस्तनरेखाया जात्येकवचनं, तत्रापि त्रिशूलाकारे सपत्नीयोगः । पतिभाग्यं दक्षिणे भाग्यलेखया इत्यु क्तम् ॥ २५ ॥ दक्षिणैः पल्लवैः पत्युरेखायां प्रीतिरूत्तमा । बलवलक्षणैर्नायाः फलं भर्तृ विांग || २६ ॥ दक्षिणैरिति । पतिरेखायां दक्षिणरङ्कष्ठसम्मुखैः पल्लवैः पत्युर्बहुमानं परस्परं प्रीतिः श्रृंखलया वामवियोगः । अन्तरावे परदेशगतिश्च वाच्या | एवं नार्या बलवति लक्षणे राज्यादिफलं भर्तरि वा अङ्गजे वाच्यम् । तर्जन्याद्याङ्गुलीनामान्तरे वामे तर्जनी मध्यमयोरन्तराभावे वृद्धत्वे पुत्रादिसुखं, मध्यमानामिकयोरन्तराभावे तरुणत्वे भर्तृसुखं, अनामिका कनिष्ठयोरन्तराभावे पितृसुखमिति, तथा दक्षिणेऽप्यन्तरत्वे फलं तदनुसाराद्भर्तुः पुत्रस्य वा उदयसम्भवात्, वा ग्रहणात् पितुरपिफलं ज्ञेयम् ॥ २६ ॥ ॥ इति स्त्रीरेखा विमर्शः ॥ अथ पुरुषस्य वामहस्तलक्षणमाह यथैव दक्षिणे तद्वत् प्रायो वामेऽपि वीक्ष्यते । कृष्णपक्षे प्रजातस्य मुख्यं दक्षिणलक्षणम् " Aho Shrutgyanam" २७ ॥
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy