SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ( १९८ ) चं द्रव्यभावभिन्नं नैर्मल्यं घनादेर्हस्तासिद्धिः पितृ रेखया गुरोः सुखं दक्षिण पाणे विमर्शनीयम् । तेन एक स्मादपि लक्षणान्नाना लक्ष्य विचारो नानुपपन्न इति ज्ञेयम् ।। १३८ ॥ इति स्त्रीरेखाविमर्शनम् ॥ अथ स्त्रियाः प्रसङ्गादपत्योत्पत्तिरिति क्रमादपत्य रेखा विमर्शमाह - मणेः स्वभाव रेखान्त रेखाभिः करभेन्नृणाम् । अपत्य संख्या निर्देश्यं सम्प्रदाय मताश्रयात् ॥ १३९ ॥ मणेरिति मणिबन्धादारभ्य स्वभावरेखा जीवितरेखा तत्पर्यन्तं, अपत्यानां संख्यागणना वक्तव्या सम्प्रदायो गुरुपारं पर्यन्तस्याश्रयादरस्तस्मात्, तत्रापि करमेरेखाः समा क्रेन तदा प्रथमं पुत्रीविषमाङ्केन पुत्रः प्रथमं स्यात्, अत्रायं भावः विवेकविलासे वक्ष्यमाणसम्मत्या करमे रेखा भ्रातृभगिन्यादि लक्षणं, अङ्गुष्टमूलेऽपत्यसंख्येति दृश्यते । तेन साम्प्रदायिकमतस्य तात्पर्यमिदम् । करमे वामहस्ते प्रत्यासत्त्या, अपत्य. संख्या उचिता, अङ्गुष्ठमूले तु भ्रातृ भगिन्यादिसंख्यापितृरेखा समासन्नत्वात् बाहुल्येन प्राकृत लोकानां तथैव योगात् राजयोगे पुनचैंपरत्यिम् ॥ १३९ ॥ हस्तबिम्बकार सम्यत्या द्रढयन्नाह- यावत्यकरभे रेखा ऊर्ध्वं तावदपत्यदाः । ताः समाने तदाद्या स्त्रीविषमाङ्के नरं वदेत् ॥ १४० ॥ यावत्य इति ॥ १४० ॥ तापसयोगे विशेषमाह योगिनां तनयस्थाने शिष्यप्राप्तिर्विचार्यते । पत्युः स्थाने योगिन्याः धर्मयोगमथाश्रमः ॥ १४१ ॥ योगिनामिति । अपत्यरेखाभिः शिष्यपरिगणनं योनिनां स्त्रीरहितानां वाच्यं शिष्यपुत्रयोः साम्यात्, सृष्टिद्विविधा - ' मानसी योनिजा चखाद्या शिप्सन्तत्या परापुत्रप्रवाहेणेति ' न्यायकुसुमाञ्जली ग्रन्थे उदयनाचार्याः "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy