SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ (१५३ ) अथैतद्विधिमाह शकुने क्षणे वेलायां संयोज्य पाणियामलम् । अञ्जलि मन्त्रयेन्मायां मुखेन्यासेन साङ्गुलम् ।। ४८ ॥ शकुन इति । प्रभाते सन्ध्यायां यथा योगं शकुनावसरेवा नैमित्तिकः शकुनद्रष्टा अञ्जलिंसंयोज्य सिद्धान् प्रणम्य पूर्व मन्त्रन्यासं मायापञ्चके कुर्यात् ॥ ४८ ॥ तमेवाह अं नम ई नमथाग्रे ॐ नमस्तत एँ नमः। अं नमो विष्णु तो ज्ञेयः क्रमोन्यासेऽभिमन्त्रणे ॥ ४९ ॥ अं नमः इति । इत्थमेव स्वरन्यासात् विष्णुताङ्गुष्ठादित्यर्थः ॥ ४९ ॥ वामावामशकुनविमर्श प्राह-- शाखादशकसंस्पर्शात् वामावामविमर्शतः। क्षेमपूर्व विदेल्लामं ज्ञात्वा शकुनपञ्चकम् ॥५०॥ शाखेति । यामगुलिं दाक्षणे वामे वा हस्ते स्पृशेत् परस्तदा पूर्व वामस्पर्शे क्षेमं तदनुदक्षिणस्पर्श लाभं जानीयात् शकुनरत्नपञ्चकं स्वरूपणावधारयन् शाकुनिक इत्यर्थः ॥ ५० ॥ शकुनपञ्चकेऽपि बलाबलयोगमाह- स्थानं चेष्टा तथा वेलाबलापरस्परम् । प्राज्ञः शकुन शास्त्रेण रत्नपञ्चकतो वदेत् ॥५१॥ स्थानमिति । सरसनिरसविपत फलित वृक्ष पाषाण भस्म निम्नोन्नतादिस्थानं चेष्टामुखाद्यवयव चाउ वेलादिनरात्रि सन्ध्यादिः एभिर्यद शकुनस्य बलसहित अबलं बलाबलं मध्यपदलोपी समासः तत् शकुनशास्त्रोपदेशेन रत्न'पञ्चकात् ज्ञात्वा वदेत् फलमिति शेषः ।। अथ प्रभाते वाम कनिष्ठा स्पर्श कार्य निषिद्धं पिङ्गलस्थानात् सन्ध्यायां दक्षिणकनिष्टा स्पर्शेति इति भावः । एवमत्रापि शुभाशुभ स्थानादि विचार्य धनपृच्छायां पोतकी बलवती धर्म कार्ये राजा बलवान् दिनोदये राजाभषणः "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy