SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (१३२) उक्तः स्पर्शाधिकारात् स्पृष्टेरिति यावतू विभागमाहकरस्य करनिष्ठागुलि पञ्चकस्य तात्स्थ्यात्तद्वयपदेशात्, एकैकेनपर्वणेति । शेषः, मूलपर्वणा एकः मध्यपर्वणा एकादश, अन्त्यपर्वणा एकविंशतिघट्योगताः शेषा वा यथावसरं भाव्याः बुद्धया वा, अथवा गुरोहिरा वाण्या, एवमनेन प्रकारेण खे-आकाशे इन्दु रवीसूर्याचन्द्रमसौ विना तदर्शनव्यतिरेकेऽपीत्यर्थः । सततं निरन्तरं रात्रिं दिवं तद्दिनमानं प्रोच्यते । ज्ञात्वा वक्तव्यमित्यर्थः । रेवेन्दुरवी इति द्वन्द्वगर्भस्तत् पुरुषः, अत्र पञ्चविंशत्यो घट्यो गताः, यथावसरं ज्ञातास्तदा रात्रिदिनसाम्येशेषाः पञ्च इत्याल्लभ्यते, उत्कृष्टदिनमाने एकविंशतिर्गतघट्य इति निर्णये शेषास्त्रयोदशेत्यपि बोध्यम् ॥ ७ ॥ अत्रार्थे ज्योतिः शास्त्रं सम्मत्या निदर्य पुनस्तद्तमेव मतान्तरमाहअङ्गुष्ठादौ विजानियादेक १ दिक् १० तिथि १५ संख्यया । तर्जनीद्वि २ रसारुद्रा ११ मध्यात्रि ३ सप्त ७ भास्कराः ॥ वेदा ४ ष्टर विश्वाः १३ सावित्र्यां पश्च ५ नंदा ९ चतुर्दश१४१८॥ गतशेषाहि लभ्यन्ते दिवारात्रौच नाडिकाः ॥ ९॥ अङ्गुष्ठादाविति । एतत्तु प्रायो भावितं प्राक् नन्वत्र वामावामयोरङ्गुलीनां तादप्यमेवेति, प्राच्यं मतं दक्षिणहस्ते इदं तु वामे इत्येतद्विवेकेन किञ्चित् फलान्तरं पश्यामः, तथाच नतिथिसंख्यया घटी निर्णयः, पाठत्रयेऽ पि विरोधात्, एकेनापि पाठेन दिनमाना निश्चयात् संशयएव अङ्गुष्ठमूलस्पर्शे किमेकाघटी गतारेषा वाच्या उतपञ्च घट्य इतिाकञ्च कनिष्ठा मध्य स्पर्शेतिथ्यपेक्षयाषड्घट्यः एकैका दशकैका विंशतिघटीतिवृत्तापेक्षया, एकादश घट्य इति, एवं विमर्श जायमाने सम्भावनामात्रविषयं सूत्रमिदमिति चेन्न; तिथ्यपेक्ष्यदिनमानसूत्रं लघुदिनापेक्षं, अङ्गुष्ठादावित्येतत् समदिनरात्रापेक्षं, एकः पञ्चदशैवाशा इत्येतदुत्कृष्टदिनमानापेक्षमिति प्रागेव तद्विवेचनात्, अत एव यादृशः समयस्तादृश एवं लक्षणविमर्शः फलमपि तादृशमेव यदुक्तं दिगम्बरमतकृतपञ्चसंग्रहग्रन्थे भवपच्चइगोसुरणिरयाणं तित्थेविसव्व अंगुत्थो, . "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy