SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ( १०१ ) तपसि खलु यदा सावुद्रमं याति मासि / प्रथमलवगतस्सन् वासवेवा सवेज्यः || निखिलजनहितार्थं वर्षवृन्दे वरिष्टः । प्रभव इति सनाम्ना जायतेऽद्धस्तदानीम् ॥ १ ॥ इति रत्नमालायां दिनलग्मेऽपि वक्ष्यमाणे तेनैवमकरादिक्रमः ||३९|| यो मासः प्राप्यते तस्य स्थानलक्षणवीक्षणात् । मासे शुभाशुभं वाच्यमित्युक्तं ज्ञानिभिः पुरा: ॥ ४० ॥ यो मास इति । यथा राशिचक्रे राशिलभ्यं स्थानलक्षणात्तथाऽत्रापि याच्यं सर्वसामान्यापेक्षमेतत्, अन्यथा यस्य जन्म मासो ज्ञायते तमेव तारामूले निधाय द्वादशमासान् गणयेत् वर्षस्थाने प्राप्ते तत एव द्वादशमासाइत्यपि विशेषापेक्षया मासचक्रं ज्ञेयम् ॥४०॥ अथ पक्षचक्रं शुक्ले हस्तेक्षणे पञ्चदशी तिथिप्राप्तौ तिथिचक्रे पूर्णिमाग्राह्या कृष्णत्वमावसीति भेद ज्ञानाय प्राह कृष्णपक्षो दक्षिणः स्यात् करस्तदितरः सितः । यत्पक्षे दर्शयेद्धस्तं सम्मुखोऽन्यस्तदन्यथा ॥ ४१ ॥ कृष्ण इति । सूर्यप्राधान्यात् स्वरोदयानुसारेण तस्य पुंस्त्वाद्दक्षिणः करः कृष्णपक्षो वामस्तु चन्द्रप्राधान्यात् शुक्ल इति यत्पक्ष इति कृष्णपक्षे जातस्य दक्षिणो मुख्यः शुक्ले लब्धजन्मनो वामः करस्तद्ज्ञानाभावे यस्मिन् पक्षे हस्तं दर्शयेत् समुख्यो जन्मकुण्डलिका स्थानीयो दक्षिणः कसे राशिकुण्डलिकास्थानीयो वाम इति अत एव प्रत्याख्यानसमये हस्तद्वय वीक्षणं मन्त्रन्यासेऽपि ' अङ्गुष्ठाभ्यां नमः' इत्यादौ द्विवचनग्रहणं च स्पष्टम् । एवं रात्रिजातस्य वामप्राधान्यं दिनजातस्य दक्षिण प्राधान्यं; तथा दक्षिणायने जातस्य दक्षिणः; उत्तरायणे जातस्य वामः तथा पुरुषस्यायुषः व कूर्चश्मश्रुप्रादुर्भावे सति दक्षिणः; पश्चार्द्धे वामः; स्त्रियाः पूर्वार्द्ध वामः पश्चार्द्धे दक्षिणः प्रधान इत्यपि विचार्य 'अहवामेतो पृच्छा' इति प्रकरणकारभणनात् अज्ञाने तु सर्वत्र हस्तेक्षणपक्षस्यैव प्राधान्यं ज्ञेयं a "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy