SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम * दीधितिः प्रसिद्धत्वादित्यनुशयेनाऽऽह यदिति । गादाधरी * सद्धेतुस्थलेऽतिव्याप्तिवारणसम्भवात् । ननु तत्र भ्रमविषयप्रत्येकपदार्थविषयकत्वस्योक्तरीत्या वारणेऽपि तद्विषयविशिष्टेऽतिव्याप्तिरत आह भ्रमविषयेति । अप्रसिद्धस्वादिति । तथाच कातिव्याप्तिरिति भावः । * चन्द्रकका अतिव्याप्तीति । पर्वतो निर्वतिरित्याकारकभ्रमविषयवह्नयभावादिविषयकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वात् न भ्रमविषये वह्नयभावादावतिव्याप्तिरिति भावः । तत्रेति । पर्वतो वह्निमान् धूमादित्यादावित्यर्थः । भ्रमविषयेति । यथार्थपदादाने वह्नयभाव-प्रमेयरवपदार्थादेरित्यर्थः। उक्त रीत्या - यादृशविशिष्टविषयकवं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यादिविवक्षया । तद्विषयेति । भ्रमविषयविशिष्टे वतयभावविशिष्टपर्वतादावित्यर्थः । अतिव्याप्तिरिति । वयभाववरपर्वतविषयकत्वस्य पर्ववादी वयाद्यनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिस्वादिति हृदयम् । क्वातिव्याप्तिरिति । तथा च व्यभिचारादिघटकप्रत्येकं साध्यादावतिव्याप्तिवारणाय यादृशविशिष्टविषयकनिश्चयत्वव्यापकप्रकृतानुमितिप्रतिबन्धकरवं तादृशत्वमित्यस्यावश्यं विवक्षणीयतया यथार्थपदं व्यर्थम् , भ्रमविषयवह्नयभावादिविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धतकतातिरिक्तवृत्तित्वात् । वह्नयभाववत्पर्वतादिविषयकत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिरवेऽपि वह्नयभाववरपर्वतादेरप्रसिद्धतया क्व तत्राऽतिव्याप्लिरित्याशय इति दिक् । ॐ कलाविलासः वैयाभिधानमिति चेन्न, प्रकृतानुमितिप्रतिबन्धकतावृत्तियोऽभावस्तदीया यः अवच्छेदकत्वनिष्ठा प्रतियोगिता तन्निरूपितप्रतियोगितात्वावच्छिन्नावच्छेदकतानिरूपितभेदत्वावच्छिन्नावच्छेदकतानिरूपिताधेयतात्वावच्छिन्नावच्छेदकतानिरूपिता या याथार्थ्यसमानाधिकरणा निश्चयत्वावच्छिन्नावच्छेदकता . तन्निरूपितविषयि - तात्वावच्छिन्नावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावद्धर्मवत्त्वं हेत्वाभासत्वमेताहशलक्षणानुसारेण वैयर्थ्यमाशंकितं नत्वभावप्रतियोगितावच्छेदकतया याथार्थ्यस्य निवेशानुसारेणेतिध्येयम् । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy