SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५३ चन्द्रकला कला विकासाख्यटीकायालंकृतम् * गादाधरी 3 ज्ञानाभावस्य हेतुत्वोपगमान्न व्यभिचारः, तद्धर्मावच्छिन्नलिङ्गकत्वं च अव्यवहितोत्तरत्वसम्बन्धेन तद्रूपावच्छिन्नधर्मिक व्याप्त्यादिज्ञानविशिष्टत्वम् तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यत्तदन्यत्वमेव वा जन्यतीवच्छेदकं वाच्यम्, तिन धूमव्याप्यवह्निमानयमित्यादिशाब्दादिपरामर्शोत्ति द्वितीयक्षणे यत्र लौकिकसन्निकर्षजन्यो वह्निर्धूमव्यभिचारी धूमव्याप्येन्धनवानित्याकारकसमूहालम्बनग्रहः तज्जन्यानुमितेरुक्तसम्बन्धेन वह्नि * चन्द्रकला तद्रूपेति । तद्वह्नित्वादिधर्मावच्छिन्नविशेष्यकं यद्व्याप्य्यादिज्ञानं अव्यवहित्तोत्तरस्वसम्बन्धेन तद्विशिष्टत्वं तद्वह्नित्वादिविशेष्यकव्यभिचारज्ञानाभावजन्यतावच्छेदकं वाच्यमिति योजना । अत्राऽव्यवहितोत्तरत्वं तादृशव्याप्यादिज्ञानध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति वाशव्याप्त्यादिज्ञानध्वंसाधिकरणकालत्वरूपं तृतीयक्षणसाधारणं बोध्यमित्यन्यत्र विस्तरः । तादृशसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । व्यभिचारज्ञानेति । तद्धर्मावच्छिन्नधर्मिकमित्यादिः । तदन्यत्वम् = तद्भिन्नत्वम् । तद्भिन्नानुमितित्वमितियावत् । जन्यतावच्छेदकमिति । व्यभिचारज्ञानाभावस्येत्यादिः । तेनेति । तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यदित्यादिद्वितीय कल्पानुसरणेनेत्यर्थः । धूमव्याप्यवह्निमानयमिस्याकारकपरामर्शस्य लौकिकसन्निकर्षादिजन्यस्वे ताहरापरामर्शोत्तरं वह्निधर्मिकधूमव्यभिचारग्रहस्य लौकिकसन्निकर्षजन्यस्यापि उत्पादो न सम्भवति लौकिकसन्निकर्ष जन्य तत्प्रकारकप्रत्यक्षे लौकिकसन्निकर्षजन्यतदभाव निश्चयस्य प्रतिबन्धकत्वादतस्तादृशपरामर्शस्य शाब्दबोधाद्यात्मकत्वमाह धूम. व्याप्येति । शाब्दादीत्यत्रादिनाऽनुमित्यादिपरिग्रहः । लौकिकसन्निकर्षजन्य प्रत्यक्षस्य सर्वतो बलवत्त्वेन विपरीतशाब्दनिश्चयाप्रतिबध्यत्वादाह लौकिकेति । धूमव्यभिचारी = धूमाभाववद्वृत्तिः । निरुक्तव्यभिचारज्ञानोत्तरमप्यनुमितिरवश्यं - मुत्पद्यते इत्याह धूमव्याप्य इति । इत्याकारकसमूहालम्बनग्रहः - इत्याकारकव्यभि चार महात्मकपरामर्शः । तत्र = तादृशस्थले । तज्जन्यानुमितेः = निरुक्तेन्धनलिंगकसमूहालम्बनपरामर्शजन्यानुमितेः । उक्तसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । * कलाविलासः तद्धर्मावच्छिन्नलिंग कत्वमित्यादि । अत्राव्यवहितोत्तरत्वं तृतीयक्षणसाधारणं स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वं साधिकरणत्वरूपं बोध्यम् तेन यत्रादौ वह्नित्वावच्छिन्ने धूमव्यभिचारग्रहस्ततो लौकिकसन्निक 'वशाद् धूमव्याप्यवह्निमानयमिति परामर्शस्ततः परामर्शतृतीयक्षणेऽनुमितिस्तादृशानुमितेः परामर्शद्वितीयक्षणेनापत्तिः, नवा यत्रापेक्षाबुद्ध्यात्मकव्यभिचारज्ञानं ततोऽपेक्षा "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy