SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७१ चन्द्रकला-कलाविलासाख्यटोकाद्वयोपैतम् २७१ * दीधितिः - तन्न, तद्वत्त्वं हि हेतो भेदेन, बाधे तदभावात् । अत एव नाश्रयतया, ___ * गादाधरी * तत्कालीनत्वस्याधेयभेदेन भेदानभ्युपगमात् , अभ्युपगमे वा आधेयतासम्बन्धेन तत्कालस्यावच्छेदकतया तमादायैव लक्षणसमन्वयादिति भावः । नाभेदेनेति । विवक्षितुं शक्यमिति शेषः । साध्याभावववृत्तित्वादिविशिष्टसाधनरूपदोषस्याभेदसम्बन्धेन हेतौ सत्वात्तेन सम्बन्धेन तद्वत्त्वविवक्षायां न व्यभिचारादावप्रसक्तिरतः बाधे तदभावादितिः वह्नयभाववदुहृदादिरूपबाधे धूमादिरूपहेत्वमेदासत्वादित्यर्थः तथा च तत्राव्याप्तिरिति भावः अत एवम्बाधेऽव्याप्तेरेव,नाश्रयतया तद्वत्वम् * चन्द्रकला * भेदानभ्युपगमादिति । तथा च परामर्शरूपज्ञाननिष्ठतादृशसामग्रीकालनिरूपिताधेयतातः शब्दत्वादिनिष्ठतादृशाधेयताया भेदविरहात् तादृशसामग्रीकालनिरूपिताधेयत्वरूपताहशसामग्रोकालीनत्वमादायव शब्दत्वादिसद्धतौ दशाविशेषे लक्षणसमन्वय इति भावः। ननु तत्कालनिरूपिताधेयताया श्राधेयव्यक्तिभेदेन भेदानभ्युपगमे परामर्शादिनिष्ठविरोध्यनुमितिसामग्रोकालोनत्ववत् शब्दत्वमित्यपि प्रमाप्रतीतिः स्यादतोऽवच्छेदकमेदेनाधेयताभेदोऽवश्यं स्वीकरणीय इत्यत आह अभ्युपगमे वेति । तत्कालनिरूपिताधेयत्वस्येत्यादिः। अवच्छेदकतयेति । तथाच प्राधेयतासम्बन्धन विरोधिकोट्यनुमितिसामग्रीकालववेनैव परामदेरनुमितिप्रतिबन्ध कतया तादृशकालस्य चाधेयतासम्बन्धेन परामशं इव शब्दत्वादावप्यक्षतत्वात् तत्र लक्षणसमन्वय इति तु परमार्थः । तमादायैव = तादृशसामग्रीकालमादायैव । लक्षणेति । शब्दत्वादिसद्धतावित्यादिः ज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकलां यदि हेतावभेदेन तदा धूमवान् वह्नरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्निरूपतादृशप्रतिबन्धकतावच्छेदकव्यभिचाराभेदस्य वह्निरूपहेतौ सत्वेन तत्र लक्षणसमन्वयसम्भवेऽपि हृदो वह्निमान् धूमादित्यादौ बाधिते धूमादिहेतावव्यातिः, वह्नयभावविशिष्टहदरूपबाधाभेदस्य धूमादौ विरहात् । निरुक्तबाधितहेतावव्यासिभयेन आश्रयतासम्बन्धेनापि तद्वत्वं वक्तुमशक्यम् , धढ़यभावविशिष्टहृदाश्रयताया धूमेऽभावादित्याह साध्याभावेति । ननु समूहालम्बनेकज्ञानविषयत्वसम्बन्धेन वह्नयभावविशिष्टहृदाश्रयताया धूमे "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy