SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला कलाविलासाख्य टीकाद्वयोपेतम् गादाधरी २१९ भिचारादिविषयताप्रयोज्यव्याप्त्याद्यवगाहित्याभाववत्तायां नियमतः प्रयोजकत्वान्नातिप्रसङ्गावकाशः । बाधसत्प्रतिपक्षादिविषयकज्ञानस्य नानाविधबाधविषयकज्ञानस्य वा नन्तरं जायमानायामनुमितौ या बाधादिविषयताप्रयोज्याऽभावाधिकरणता तस्या विशिष्टान्तरविषयिताप्रयोज्यत्वेऽपि स्वपूर्ववर्त्तिज्ञानीयविरोधिविषयताया एव स्वनिष्ठप्रतिबध्यतावच्छेदकधर्माभावाधि * चन्द्रकला व्याप्त्येति । साध्यव्याप्तिघटिततादृशव्याप्तिविशिष्ट हेतुमत्तावगाहित्वाभावाधिकरणतायामित्यर्थः । नातिप्रसंगेति । व्यभिचारविषयितात्वेन व्याप्तिग्रहप्रतिबन्धकतावच्छेदकतया तेनैव रूपेण यत् किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकेन प्रतिबध्यतावच्छेदकव्याप्त यवगाहित्वाभावाधिकरणताप्रयोजकत्वं निर्विवादमिति नातिप्रसंग इत्यर्थः । सामान्यतो विशिष्टान्तरविषयितान्वव्यापकं रूपमप्रसिद्धं स्यात्, निरुकव्यभिचारघटितबाधादिविशिष्टान्तरव्यभिचारसत्प्रतिपक्षादिविषयितात्वसमानाधिकरणव्यभिचारादिविषयितात्वे सत्त्वत्, एकमात्रदोषस्थलेऽपि विपरीतदोषतद्वयादिविषयिता साधारणविशिष्टान्तरविषयितात्वव्यापकतायाः कुत्राप्यभावादतो यत् किञ्चित्त्वं विशिष्टान्तरविशेषणमितिध्येयम् । भेदप्रतियोगितावच्छेदकत्वस्यैव ननु हृदो वह्निमान् धूमादित्यादौ वह्न्यभावविशिष्टहृदादिरूपवाधादावव्याप्तिः वह्नयभाववान् ह्रदो वह्नयभावव्याप्यवांश्चेत्याकारकबाघसत्प्रतिपक्षविषयक समूहालम्भननिश्चयाव्यवहित्तोत्तरजायमानायां हृदो वह्नचभाववान् हृदवृत्तितावांश्च वह्नयभाव इत्याकारकनानाविधबाधविषयक निश्चयाव्यवहितोत्तरजायमानायाञ्च घटाद्यनुमितौ वर्त्तमाना या तादृशोभयाभावप्रयोजकद्ददविशेष्य कवह्नि प्रकारकत्वाभावाधिकरणता तत्र तादृशविशिष्टान्तरवच भावव्याप्यवत्सत्प्रतिपक्षविषयिताप्रयोज्यत्वस्यैव सत्त्वेन स्वावच्छिन्न विषयिताप्रयोज्यस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक निरुक्तलक्षणाश्रयीभूतययोक्तसत्प्रतिपक्षतावच्छेदकरूपाद्यवच्छिन्नविषयिताप्रयोज्यताया अक्षततया स्वपदेन तादृशबाधत्वादेरुपादान [सम्भवादित्याह बाधेति 1 तस्याः = पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणतायाः । नेयमव्याप्तिरित्याह स्वपूर्ववर्त्तीति । स्वं वह्नयाद्यभावविशिष्टहृदादिरूपैकविधबाधादिमात्रविषयकनिश्चयाव्यवहितोरजायमानघटाद्यनुमितिः, तत्पूर्ववर्त्तितादृशबाघज्ञानीयविरोधिविषयिताया एवेत्यर्थः । स्वनिष्ठेति । घटाद्यनुमितिनिष्ठायाः "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy