SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०८ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ॐ दोधितिः एवं साध्यनिश्चयोत्तरं तस्याननुमितावपि मानसज्ञानाविरोधित्वात् । गादाधरी 1 लम्बनात्मकघाटिदिनश्चयानन्तरजातज्ञाननिष्ठतादृशोभयाभाववत्त्वस्य कविरोधिविषयिताकत्वविरहात् वह्निमत्पर्वतादिविषयकसमूहा ज्ञानीयविरोधिविषयिताप्रयुक्तत्वेऽपि घटादिनिश्चयाव्यवहितोत्तरानु मिर्विरोध विषयिताप्रयुक्तो भयाभाववत्त्वविरहान्नातिव्याप्तिरितिभावः प्रयोज्यप्रयोजकभावश्चानुभवसिद्धः स्वरूपसम्बन्धविशेषः । विरोधिपदप्रयोजनमाह एवमिति । अननुमितावपीति । न क्षतिः, तस्य विरोध्यविष चन्द्रकला त 1 ह्निपर्वतधर्मिकवह्निप्रकारकत्वघटिततादृशोभयाभावस्य प्रयोजकविरोधिविषयिताकत्वविरहादित्यर्थः । प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकतया निरुक्ताहार्यज्ञानत्वव्यापिकायाः कस्या अपि विषयिताया घट "Aho Shrutgyanam" निश्चयप्रतिबध्यतावच्छेदत्वाऽसम्भवादित्याशयः । यद्यपि वह्निमान् पर्वतो घटश्चत्याकारकसमूहालम्बन वह्निमत्पर्वतविषयक घटत्वावच्छिन्नविषयक निश्चयाव्यवहितोत्तरानुमितौ वर्त्तमानस्य तादृशोभयाभावस्य अनुमितिपूर्वोत्पन्नसमूहालम्बन चिषयिताप्रयुक्ततया घटादावतिव्याप्ति दुर्वा रेत्युच्यते, तथापि यद्रूपावच्छिन्न विषयक निश्चयाव्यवहितोत्तरानुमितिसामान्यनिष्ठोमयाभाव एव विरोधविषयिताप्रयुक्तत्वस्य निवेशनीयतया न घटादावतिव्याप्तिः, समूहालम्बनानात्मकघटादिविषयकनिश्चयाव्यवहितोत्तरानुमितेरपि घटत्वरूपयद्रूपावच्छिन्न विषयकनिश्चया व्यवहितोत्तरानुमितिसामान्यान्तर्गततया तन्निष्ठोभयाभावे विरोधिविषयिताप्रयुक्तत्वस्यात्सत्त्वादिति भावमाह वह्निमत्पर्वतेति । ननु घटनिश्चयाव्यवहितोत्तरानुमितिनिष्ठे निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावे घटादिविषयितायाः प्रयोजकत्वाभावे किं मानमित्यत आह प्रयोज्योत । तथाचैतज्ज्ञाने इथं विषयिता वर्त्तते अत एवैतज्ज्ञानाव्यवहितोत्तरज्ञाने तादृशोभयाभावो निर्विवाद इत्यनुभवात् एतज्ज्ञानोयविषयिता प्रयोजिका, ताहोभयाभावश्च प्रयोज्य इत्याकारकानुभवसिद्धमेव प्रयोजकत्वं प्रयोज्यत्वञ्चेति भावः । घटादिनिश्चयोत्तरजातानुमितिनिष्ठस्य निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावस्य घटविषयताप्रयोज्यत्वविरहेणैव घटादावतिव्याप्तिवारणासम्भवे विषयितायां विरोधित्वविशेषणं व्यर्थमित्यतो विरोधिपदव्यावृत्तिप्रदर्शनपरां दीधितिं व्याचष्टे न क्षतिरिति ।
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy