SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १७३ * गादाधरी धर्मबोधकताया व्युत्पन्नतया प्रकृते च मेयत्वविशिष्टव्यभिचारत्वादिरूप. स्यान्वयितावच्छेदकस्योक्तविशेषणासत्त्वेनातिप्रसङ्गाभावादिति हृदयम् । नन्वाश्रयासिद्धथादिस्थल पक्षतावच्छेदकाभाववत्पक्षकत्वादिकमेव दोपस्तस्यैव हेतुनिष्ठतया हेतोदुष्टत्वव्यवहारनिर्वाहकत्वात् , तादृशधर्मस्य च * चन्द्रकला* न्धकतानतिरिक्तवृत्तिविषयतानिरूपकतावच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषयता - वच्छेदकत्वरूपस्वपदार्थविशेषणविशिष्टान्तराऽघटितत्वावच्छिन्नस्वावच्छिन्ननिरूपिता या प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिता सा यस्य स्वस्य एवम्भूतं यत् स्वं तत्वेन दोषान्वयितावच्छेदकतादृशस्वपदार्थबोधकताया इत्यर्थः ।। _प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वमित्याह प्रमेयत्वेति । उक्तविशेषणविरहेण - विशिष्टान्तराऽघटितत्वविशेषणविरहेण । अतिप्रसंगाभावात् - प्रमेयविशिष्टव्यभिचारो दोष इति व्यवहारापत्तिविरहात् । व्यवहारं प्रति व्यवहत्तव्यज्ञानस्य जनकतया तादृशदोषव्यवहारेऽपि दोषत्वावच्छिन्नज्ञानस्य हेतुताया आवश्यकतया विशिष्टान्तराऽघटितत्वविशिष्टदोषतावच्छेदकतादृशव्यभिचारत्वज्ञानाऽसम्भवान्न प्रमेयत्वविशिष्टव्यभिचारो दोष इति व्यवहारः इति तु तत्त्वम् । एवञ्चेत्यादिदीधितिमवतारयति नन्वाश्रयाऽसिद्धथेति । काञ्चनमयपर्वतो वह्निमान् धूमादित्यादिस्थले काञ्चनमयत्वाऽभावविशिष्टपर्वतस्य आश्रयासिद्धिरूपदोषत्वाभ्युपगमे तादृशपर्वतस्य धूमरूपहेताववत्तमानतया धूमस्य दुष्टत्वानुपपत्तिः स्यात् , काञ्चनमयत्वाभावविशिष्टपर्वतकत्वस्य धूमादिहेतुनिष्ठत्वेऽपि तस्य काञ्चनमयस्वाभावविशिष्टपर्वतरूपविशिष्टान्तरघटिततया लक्ष्यत्वमेव न सम्भवतीति कस्याश्रयासिद्धित्वं स्वीकरणीयमित्यभिप्रायबानाहेतिसमुदितग्रन्यतात्पर्यम् । ____ * कलाविलासः * भावस्य तदवच्छिन्न सम्बन्धिभेदस्य वा नगा बोधयितुमशक्यत्वादिति चेदत्र केचित्-पर्वते वह्निसाधने धूमो न दुष्ट इत्यादावनन्यगत्या स्वज्ञानविषयप्रकृतहेतुतावच्छेदकत्वसम्बन्धेन स्ववृत्तितावच्छेदकत्वोपलक्षितधर्मावच्छिन्नविषयिस्वव्यापकत्वाभाववत्प्रकृतानुमितिप्रतिबन्धकताको धूम इत्याकारकस्यैव वोधस्य स्वीकारात् प्रथमं स्वपदं वयभावादिपरं, द्वितीयञ्च स्वपदं हेतुपरमित्याहुः। अन्ये तु पर्वते वह्विसाधने धूमो न दुष्ट इत्यादौ दुषधात्वर्थः प्रतिबन्धकत्वमात्रम्, तत्र अनुमित्यर्थकसाधनपदोत्तरसप्तम्यर्थनिरूपितत्वस्यान्वयः, तादृशनिरूपितत्वान्वितप्रतिबन्धकतायाश्च स्वानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकध "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy