SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् गादाधरी तेन च रूपेण व्यभिचारादेर्न बाधादिसाजात्यमिति व्यभिचारघटितबाधादी नाऽव्याप्तिः। नचैवं यद्विषयकनिश्चयस्य विरोधिविषयिताप्रयुक्तोभयाभावस्तत्त्वमित्यत्र विरोधिविषयिताप्रयुक्तत्वदलस्य वैयर्थ्यम्, घटादेस्तादृशरूपेण सजातीयत्वाऽप्रसिद्धथैव तत्र नातिप्रसङ्ग इति वाच्यम् , स्वसजातीयविशिष्टान्तरघटितं यद्यत्स्वं तदविषयकप्रतीतिविषयत्ववि ॐ चन्द्रकला छ वह्निमत्त्वाश्रयवृत्तिहेत्वाभासविभाजकबाधत्वस्य सामानाधिकरण्यसम्बन्धेन विरहात् स्वसजातीयविशिष्टान्तरतावच्छेदकधर्मपदेन तादृशव्यभिचारत्वस्योपादातुमशक्यतया धूमव्यभिचारिवह्निमवृत्तिधूमाभावत्वरूपविपरीतबाधत्वे एव तथावस्यावश्यकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वस्मिन् धूमाभाववद्भूमव्यभिचारियह्निमत्त्वरूपबाधत्वेऽक्षतत्वादित्याह तेनेत्यादि । स्वाश्रयबाधवृत्तिहेत्वाभासविभाजकरूपेणेत्यर्थः। नाव्याप्तिरिति । तथाच व्यभिचारादौ सर्वत्रैव विपरीतव्यभिचारत्वादिकमेव विशिष्टान्तरतावच्छेदकत्वेनोपादाय लक्षणसमन्वयः करणीय इति भावः । ननु अत्रवदन्तिकल्पे अपि निरुक्तरीत्यैव विशिष्टान्तराऽघटितत्वस्य विवक्षणीयतया तत्कल्पे घटादावतिव्याप्तिवारण प्रयोजनकमेव यद्वि वयकनिश्चयीयविरोधिविषयिताप्रयुक्तत्वदलमिति स्वयमेव दीधितिकृता वक्ष्यते, तत् कथं संगच्छते ? घटादौ हेत्वाभासविभाजकरूपस्याऽवतमानतया स्वपदेन घटत्वादेधत्त मशक्यत्वादिति तादृशविरोधिविषयिताप्रयुक्तत्वदलोपादानं निरर्थकं स्यादित्याशंकते नचैवमिति । वाच्यमितिपरेणान्वयः । एवम् = स्वपदस्य लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरत्वे । इत्यत्र = एतादृशलक्षणे । ताशरूपेण = हेत्वाभासविभाजकरूपेण । नातिप्रसंग इति । घटादाबुदासीनेऽतिव्याप्तिवारणमात्रप्रयोजनवादुक्त प्रयुक्तत्वदलस्येति भावः । समाधत्ते स्वसजातीयेति । अत्र स्वपदं लक्ष्यतानवच्छेदकीभूतप्रमेयत्वविशिष्टव्यभिचारत्व-प्रमयत्वविशिष्टवाधत्वादिपरम् । तथाच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक स्वाश्रयवृत्तिहेत्वाभासविभाजकरूपसमानाधिकरणञ्च यद्रूपं तद्रूपावच्छिन्नविषयकप्रतीतिविषयतावच्छेदकं यद्यत् स्वं तत्तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपवत्वं हेत्वाभासत्वमिति प्रतिबन्धकताघटितलक्षणस्य तादृशस्वावच्छिन्नाविषयकप्रतीति "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy