SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अनुमानगादापय सामान्यनिरुक्तिप्रकरणम् गादाधरी वस्तुतस्तु 'अत्र वदन्ती' त्यादिनिष्कृष्टकल्पे मेयत्वविशिष्टव्यभिचारादिवारणाय विशिष्टान्तराऽघटितत्वस्य निवेशनीयतया दर्शितबाधाद्यसंग्रहः दोष एव । एतेन स्वावच्छिन्ननिरूपितविषयित्वावच्छिन्न यत्किञ्चित्प्रतिबन्धकताव - च्छेदकविषयिता कविशिष्टनिरूपित्तविषयितात्वव्यापकस्वावच्छिन्ननिरूप्यताकधर्मवत्त्वं समुदितलक्षणार्थः । * चन्द्रकला * १६० तत्कल्पेऽपि प्रमेयत्व विशिष्ट व्यभिचारेऽतिव्याप्तिवारणाय विशिष्टान्तराऽघटितत्वनिवेशस्यावश्यकतया तत्कल्पोकलक्षणे व्यभिचारघटितबाधस्य निरूकाश्रयाद्धिश्चासंग्रहो दोषाय भवति नतु प्रतिबन्धकताघटितलक्षणे तयोरसंग्रहो दोषमावहतीत्याह वस्तुतस्त्विति । निरुक्ताश्रयासिद्धौ प्रतिबन्धकताघटितलक्षणेऽपि नाडव्याप्तिरित्याह एतेनेति । परास्तमितिपरेणान्वयः । स्वावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः । तथाच स्वावच्छिन्ननिरूपित विषयिताव्यापकयत् किञ्चित्प्रतिबन्धकतावच्छेदकविषयितानिरूपकीभूतविशिष्ट निरूपित विषयितात्वव्यापिका स्वावच्छिन्ननिरूप्यता यस्य स्वस्य एवं भूतं यत् स्वं तादृशस्ववत्त्वं विशिष्टान्तराऽघटितत्व सहितसमुदितलक्षणार्थः पर्यवसितः । * कलाविलासः एतेन स्वावच्छिन्नेति । अत्र कल्पे स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशे वृक्षः कविसंयोग्येतत्त्वादित्यादौ कपिसंयोगाभावववृक्षेऽतिव्याप्तिः यत् किञ्चित्प्रतिवन्धकतावच्छेदककपिसंयोगाभावववृक्ष विषयितात्वव्यापकत्वस्य कपिसंयोगाभावववृक्षत्वावच्छिन्ननिरूप्यतायां सत्त्वात् । श्रतः अनाहार्याऽप्रामाण्यज्ञानानास्कन्दिताव्याप्यवृत्तित्वभ्रमानास्कन्दितस्वावच्छिन्नविषयिताशालिनिश्चयत्वव्यापकत्वं प्र , तिबन्धकत्तायां निवेश्यम् । कल्पे विशिष्टद्वयाघटितत्वनिवेशो नास्ति । स्वावच्छिन्नविपयकत्वावच्छिन्नयत् ञ्चित्प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकत्वस्य लक्षणे निवेशनीयत्वात्, केवलजलवद्धदविषयिताया श्रपि प्रतिबन्धकतावच्छेदकत्वात्, तत्र च बह्नबभावत्रज्जलवद्वृत्तिजलत्रद्यदत्वावचिछन्ननिरूप्यतायाः श्रसत्त्वादित्यवधेयम् । निरुक्तकल्पस्यानुगमस्तु प्रकृतानुमितिप्रतिबन्धकताविशिष्टधर्मवत्त्वं हेत्वाभासत्वमिति, वैशिष्टयञ्च स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परयावच्छेदकतावत्वस्वावच्छेदकविषयितात्वव्यापकत्वोभयसम्बन्धेन, व्यापकता च स्वावच्छिन निरूपितत्त्वसम्बन्धेनेतिसंक्षेपः । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy