SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * न च वह्नयभाववान् ह्रदो वह्निमानित्याहार्यज्ञानीयवह्नयभावविशिष्टहृदादिविषयता नाऽनाहाय॑ज्ञानसाधारणी तादृशाहाय्यज्ञानसमानाकार. कानाहाय्य॑ज्ञानाप्रसिद्धः, ह्रदो वह्नयभाववानित्यनाहाय्यज्ञानीयवह्नयभावविशिष्टहदादिविषयतातश्च वह्नयादिप्रकारतानिरूपिततादृशाहायज्ञानीयव यभावविशिष्टहदादिविपयताया भिन्नत्वात् , तथाचानाहाय्यज्ञानवृत्तित्वविशिष्टविषयताया एव प्रतिबन्धकतावच्छेदकतया न प्रतिबन्धकतावच्छेदकतायां दर्शिताऽऽहाय्य॑ज्ञानीयविषयितासाधारणविशिष्टविषयतात्वव्यापकत्वमिति वाच्यम् , * चन्द्रकला. स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षे तु अनाहार्यत्वादिकमनिवेश्य केवलं यद्पावच्छिन्नविषयितात्वव्यापकत्वं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायां निवेशनीयम् , संशयादिनिरूपितविषयताया निश्चयत्वावच्छिन्ननिरूपितत्वेन समानाकारक. ज्ञानीयतयानुमितिप्रतिबन्धकतावच्छेदकत्वेन वहन्यभावादिविशिष्टह्रदत्वाद्यवच्छिन्ननिरूपितविषयितात्वमात्रव्यापकतायाः प्रतिबन्धकतावच्छेदकतायामशतवादतो निरुक्तरीत्या स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणमेव निश्चयत्वाद्यप्रवेशेन लाघवात् युक्तमिति । । नन्वाहार्यवहयभाववान् हदो वह्निमानित्याकारकज्ञानं न वह्नयभाववन्हदनिश्चयसमानाकारक निश्चयोयविशेष्यतायाःशुद्ध हृदत्वावच्छिन्नतया तादृशविशेष्यताया आहार्यज्ञाने विरहात् वह्नयभाववान् व्हदो वह्निमानित्याकारकाहार्यज्ञानीयविशेष्यताया वहयभाव-हदत्वरूपधर्मद्वयावच्छिन्नत्वादिति वह्नयभावविशिष्ट हदत्वावच्छिन्नविषयतात्वरयाहार्यज्ञानीयताह शविषयतायामपि सत्त्वेन तत्रानुमितिप्रतिबन्धकतावच्छेदकत्वस्याभावादसम्भववारणाय सद्रूपावच्छिन्न विषयतायामनाहार्यज्ञानीयत्वनिवेशस्यावश्यकतया स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षेऽपि गौरवस्य वारयितुमशक्यत्वादिति तटस्थः शंकते नचेति । वाच्यमिति परेणान्वयः । नानाहार्येति । न निश्चयादौ वर्तमाना भवितुमर्हति । भिन्नत्वादिति । आहायज्ञानीयवह्निप्रकारतानिरूपितविशेष्यताया वह्नयभावाद्यवच्छिन्नत्वादिति भावः । दर्शितेति । वह्नयभाववान् हृदो वह्निमानित्याकारकाहार्यज्ञानीयवह्नयभावविशिष्टह्रदविषयितासाधारणविशिष्ट विषयितात्वव्यापकत्वं स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वस्य नेत्यर्थः। तथाचानाहायित्वस्य यद्पावच्छिन्नविषयितायामनिवेशेऽसम्भव इत्याशयः । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy