SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११३ चन्द्रकला-कला विलासाख्यटीकाद्वयोपेतम् गादाधरी ननु विशिष्टदोषघटकीभततदेकदेशविषयतायां स्वरूपसम्बन्धरूपावच्छेदकत्वसत्त्वेऽपि यादृशविशिष्टविषयतासामान्यस्य तादृशावच्छेदकत्वविवक्षया अतिप्रसङ्गवारणसम्भवात् तदेव कथं न विवक्षितमिति । ___ * चन्द्रकला * वच्छेदकत्वनिवेशसमर्थनाय शंकते नन्विति । विशिष्टेति । वह्नयभावविशिष्ट-हदरूपबाधात्मकदोषघटकीभूतो यो वह्नयभावाद्यकदेशस्तनिष्ठविषयतायामित्यर्थः । स्वरूपसम्बन्धरूपावच्छेदकत्वविवक्षणे पूर्वोक्तयुक्तया हदो वह्निमानित्यादौ बाधायेकदेशे वह्नयभावादावतिव्याप्ति पूर्वोक्तां वारयति विशिष्टेति । तथाच यद्रूपावच्छिन्नविषयतात्वव्यापकं प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वं तद्र पवत्त्वं हेत्वाभासत्वमित्युक्तौ न बाधायेकदेशादावतिव्याप्तिः, तादृशैकदेशाद्यात्मकवहन्यभावत्वावच्छिन्नविषयतात्वरय वह्नयभाव इत्याकारकज्ञानीयवन्यभावविषयतायामपि सत्त्वेन तत्र -हदादिधर्मिकवहयाद्यनुमिति. प्रतिबन्धकतावच्छेदकत्वविरहात् वह्नय भावत्वावच्छिन्नविषयतात्वव्यापकत्वस्य प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतायामसत्त्वात् यद्र पपदेनतादृशैकदेशवृत्तिवह्नयभावत्वादेरुपादातुमशक्यत्वादित्याशयः। तदेव = निरुक्तरीत्या स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणमेव । न विवक्षितम् दीधितिकृतेतिशेषः । * कलाविलासः ॐ प्रतिवध्यतानिरूपित प्रतिबन्धकतावृत्तिधर्मवत्त्वं हेत्वाभासत्वमिति, वृत्तित्वञ्च स्वविशिष्टनिश्चयत्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यं निश्चये स्वावच्छिन्नविषयितावत्वस्वावच्छिन्नविषयक स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकधर्मावच्छिन्नविषयि - ताशून्यत्वोभयसम्बन्धेन, अतिविस्तृतिभयात् प्रकारविधयाऽनुगमोऽत्र न प्रदर्शितः। ननु यद्पपदेन यदि सामानाधिकरण्यसम्बन्धेन वह्नयभावविशिष्टहदत्वं धर्त्तव्यं तदा वह्नयभावविशिष्टइदत्ववानयमितिज्ञानीयमकारत्वावच्छिन्नविशेष्यताया अपि वह्नयभावविशिष्टहदत्वावच्छिन्न तया तत्रानुमितिप्रतिबन्धकताविरहेणाऽसम्भवः स्यात् । यदिच वह्नयभाव-हृदत्वोभयमेव तथा, तदापि वह्नयभाववद्धदत्ववान् घट इत्याकारकज्ञानीयप्रकारत्वावच्छिन्नविशेष्यतायाः तादृशोभयधर्मावच्छिन्नतया तत्राप्यनुमितिप्रतिबन्धकतायाः अभावसरवादसम्भवो दुर्वार इति चेन, हृदत्वावच्छिन्नानुयोगिताकस्वरूपसम्बन्धेन वह्नयभावाधिकरणनिरूपितवृत्तित्वरूपसामानाधिकरण्यसम्बन्धेन वयभावविशिष्टहदत्वस्यैव यद्रूपदेन धर्तव्यत्वात् । वयभावविशिष्ट "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy