SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनुमानगादार्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी * यद्पावच्छिन्नविषयितात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविषयिताशून्यत्वस्य ज्ञानविशेषणतया सामञ्जस्यात् । * चन्द्रकला* लक्षणं संगमनीयम् तादृशविशिष्टविषयकनिश्चयत्वाधिकरणवृत्यभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्न विषयिताशून्ययद्पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रति. बन्धकत्वं तद्रूपवत्त्वं हेत्वाभासत्वमिति लक्षणार्थः पर्यवसितः । एवञ्च न हदो वहिमानित्यादिस्थलीयवाधादौ जातिवादिना व्हदत्वावगाहि जातिमान् वह्नयभाववानित्याकारकज्ञानमादायाऽसम्भवः, तादृशबाधादिविषयकनिश्चये जातित्वावच्छिन्न हदत्वनिरूपितविषयितासामान्याभावस्य वर्तमानतया तत्प्रतियोगितापच्छेदकजातित्वावच्छिन्नविषयितात्वावच्छिन्नशून्यत्वस्य जातिमान् वन्यभाववानितिज्ञाने विरहात् तस्य च हदो वह्नयभाववानितिज्ञान एव सत्त्वात् । नवा हदो जात्यभाववानित्यादिस्थलीयवाधादावव्याप्तिः, तादृशजातिमद्धदरूपवाधनिश्चये जातित्वावच्छिन्न हदत्वविषयित्वाभावस्य सत्त्वेन तत्प्रतियोगितावच्छेदकजातित्वावच्छिन्नहदत्वविषयितात्वावच्छिन्नशून्यताया जातिमान् जातिमानित्याकारकजातित्वादिना हृदत्वावगाहिज्ञाने विरहादिति तात्पर्यम् । ज्ञानविशेषणतया = यद्पावच्छिन्नविष * कलाविलासः * यदुरूपावच्छिन्नविषयितात्वमिति । ननूक्तरीत्याऽव्यापकीभूतविपयिताशून्यत्वविवक्षणेऽपि अभावत्वेन हृदत्वावगाहि-अभाववान् वह्नयभाववानितिज्ञानमादाय पुनरसम्भवः, निरुक्तज्ञानेऽपि वह्नयभाववद्धदत्वावच्छिन्नविषयितायाः सत्वात् , इतिचेदत्र नव्याः, यादृशविशिष्टविषयकनिश्चये अव्यापकीभूतविपयिताशून्यतवमिव यद्यद्पावच्छिन्नस्य यस्य यस्य विशिष्टघटकता तत्तद्रूपावच्छिन्नतत्तन्निष्टविषयिताभिन्न किञ्चिदवच्छिन्नविपयिताशून्यत्वमपि तादृशनिश्चये विशेषणं देयम्, एवञ्चाभावत्वावच्छिन्नह्रदत्वविपयितायास्तादृशविपयिताभिन्नतया तळून्यत्वस्याभाववान् वह्नयभाववानितिज्ञाने विरहान्नाऽसम्भवः । नचैवं जातिमान् वह्निमानित्यत्र वह्नयभाववज्जातिमद्रूपवाधेऽव्याप्तिः प्रत्येक जातिविपयितायाश्चालनीन्यायेन तादृशविशिष्टविपयित्वाऽव्यापकत्वादितिवाच्यम्, यादृशसमुदायत्वावच्छिन्नानुयोगिताकपर्याप्तयवच्छेदकतानिरूपकताकविपयितात्वं तादृशविशिष्टविपयकतवसमानाधिकरणाभावप्रतियोगितावच्छेदकं तादृशशसमुदायत्वावच्छिन्नानुयोगिताकपर्यायवच्छेदकताकनिरूपकताकविषयिताशून्यत्वस्य तादृश "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy